________________
अलंकारकौस्तुभः ।
३१९
यत्र विशेषेण सामान्यम्, सामान्येन वा विशेषः समर्थ्यते सोऽर्थान्तरन्यासः । साधर्म्यवैधर्म्याभ्यां प्रत्येकं द्वैविध्यमिति भेदचतुष्टयमित्यर्थः । आद्यं साधर्म्येण यथा
'स्थाने सुशिष्यनिवहे विनियुज्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णे रत्नाकरो भवति वारिभिरम्बुराशिः ॥'
तदेव वैधर्म्येण यथा
यथा
-------
'अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥' अत्रालोकाभावे विषयचाक्षुषं न भवतीत्येतद्विपर्यय आलोकसंयोगे सति चाक्षुषं भवतीति । तेन पूर्वार्धार्थसमाधानम् ।
द्वितीयं साधर्म्येण यथा
-
'अभेदेनोपास्ते कुमुदमुदरे वा निवसतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः । अपर्याप्तः कोऽपि खपरपरिचर्यापरिचयः प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥'
'रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः । विक्रिया न खलु देशकालजा निर्मलप्रकृतिषु स्थिरोदया ॥' तदेव वैधर्म्येण यथा मम
'शरच्चन्द्रस्फीता नियतमगणेया गुणगणा
मृगाक्षि त्वां प्राप्य प्रकृतिमधुरा भान्ति नितराम् । किमस्ति श्रुत्योर्वा त्रिजगति दृशोर्वापि विषयो विशुद्धाशुद्धानां क च न सहचारो निरुपधिः ॥' अत्र सादृश्यप्रत्ययाभावात्सामान्यविशेषभावाच्च दृष्टान्तभेदः । निदर्शनातिरेकस्तु तत्रैव निरूपितः । काव्यलिङ्गात्त समर्थ्यसमर्थकयोः सामान्य