________________
• ३२०
काव्यमाला ।
विशेषभावेऽर्थान्तरन्यासः । तदितरसंबन्धे तु काव्यलिङ्गम् इत्येव भेदः । इति दीक्षिताः । यत्तु वदन्ति
'यस्मिन्विशेष्यसामान्यविशेषः स विकस्वरः। ___ स न जज्ञे(जिग्ये) महान्तो हि दुर्जयाः सागरा इव ॥' अत्र विशेषसमर्थनाय सामान्योपन्यासेऽपि पुनः सामान्यसमर्थनाय विशेषोपन्यास इति विकखरोऽलंकारान्तरम् । यथा वा'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥' इदमुपमारीत्या विशेषन्यसने । अर्थान्तरन्यासे विषये यथा
'कर्णारूंतुदमन्तरेण रणितं गाहख काक खयं ___ माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालपतिते पङ्के न शङ्केत कः ॥' न चात्र विशेषसमर्थनार्थप्रवृत्तसामान्यस्य लोकप्रसिद्धतया समर्थनानपे. क्षत्वात्कथं तत्समर्थनाय विशेषान्तरोपन्यसनमिति वाच्यम् । सामान्यस्य सर्वत्र लोकप्रसिद्धनियमाभावात् । न हि यो यो धूमवान् सोऽमिमानिति व्याप्तिरूपसामान्योपन्यासे तद्विशेषरूपं दृष्टान्तोपन्यासनिरपेक्षरूपत्वं संभवति । अतो यत्र सामान्यस्य लोकेन संप्रतिपत्तिस्तत्र तत्समर्थनार्थ विशेषान्तरोपन्यासस्याप्यावश्यकत्वादिदमलंकारान्तरम् , तच्चिन्त्यम् । एवमप्यर्थान्तरन्यासद्वयरूपतयातिरिक्तत्वानौचित्यात् । प्रकृतविशेषस्य सामान्येन समर्थनादेकोऽर्थान्तरन्यासः । सामान्यस्य च विशेषेण समर्थनादपर इति भेदद्वयसमावेशात्मकतायाः स्फुटत्वात् । किं च । प्रसिद्धसामान्यस्य, समर्थनानपेक्षत्वेऽपि अप्रसिद्धस्य तस्य तदपेक्षत्वमस्तीति तत्समर्थने भिन्नालंकारोऽनुचित एव । तथा हि—'इन्दोः किरणेष्विवाङ्कः' इत्यंशपरि