________________
३१८
काव्यमाला ।
यथा
'श्रीमत्सेरनृपप्रतापदहनैः प्लुष्टे सुरस्यालयः(?)
प्रालेयैः परितो वृतं हिमगिरिं प्राप्ता नगेन्द्रात्मजा । तातालोकनतः प्रियाविरहतः संसारसंहारतो
गौरी नृत्यति रोदिति स्मरहरो मुञ्चन्ति नाकं सुराः ॥' अत्र तातालोकनत इत्यादीनां गौरी नृत्यति इत्यादौ क्रमेण हेतुतयान्वयः । ननु क्रमेणान्ययबोधे किं नियामकमिति चेत् । अन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयबोधत्वं कार्यतावच्छेदकमिति कल्पनात्तथेति केचित् ।
वस्तुतोऽयोग्यताज्ञानमेव तन्नियामकमिति मतमेव साधीयः ॥ यत्तु तथा सति
कीर्तिप्रतापौ भातस्ते सूर्याचन्द्रामसाविव ।' इति क्रमभङ्गदोषो न स्याद्योग्यतया निर्णयसत्त्वादिति, तन्न । तदुक्तरीत्या देवदत्तयज्ञदत्तयोरजावयो धनं भवानीभवयोर्गणेशस्कन्दौ तनयावित्यादावपि यथासंख्यान्वयबोधत्वावच्छिन्नापत्तेः कारणसत्त्वात् । न चेष्टापत्तिः, अपसिद्धान्तात् । तथा च यथासंख्यान्वयबोधत्वावच्छिन्नं प्रति एकमात्रवृत्तियोग्यताज्ञानाभावः उभयसाधारणयोग्यताबोधो वा प्रति. बन्धक इति त्वया कल्पनीयम् । तथा चोभयकल्पने गौरवम् । तदपेक्षया शाब्दबोधसामान्यकारणीभूतयोग्यतया ज्ञाननियामकतयैवोपपत्ताविति लाघवम् । न च क्रमभङ्गदोषत्वानुपपत्तिः, आसत्त्यज्ञानरूपत्वेन दोषोपपत्तेः अन्वयप्रतियोगिनामव्यवधानेनोपस्थितिासत्तिः । तद्वैपरीत्यं क्रमभङ्गे स्पष्टम् ॥
इति यथासंख्यम्।
अर्थान्तरन्यासं निरूपयति
यदि सामान्यविशेषौ समर्थयेते विशेषसामान्ये ।। साधाद्वैधादपि वा सोऽर्थान्तरन्यासः ॥ १ ॥