________________
___३१७
अलंकारकौस्तुभः । च्यते, तत्र कारणाभावरूपकारणसत्त्वेऽपि कार्याभावरूपकार्यानुक्तेः संभवत्येवेति विशेषोक्तिः । कार्याभावस्य कारणाभावप्रयोज्यतायाः सर्वसिद्धत्वात् । कारणादिपदानां चोभयसाधारणत्वात् । एवं यत्र सत्यपि कारणे कार्यानुत्पत्तिर्वर्ण्यते तत्रापि कारणाभावेऽपि कार्याभावरूपकार्योक्त्या विभावनाया अपि संभवः । अतो नैतद्भेदाङ्गीकारः प्रामाणिक इति । उच्यते-यद्धविच्छिन्नाकार्यता विवक्षिता तत्प्रतियोगिकारणताश्रयाभावेऽपि तद्धर्मावच्छिन्नोत्पत्तौ विभावना । एवं च विभावनास्थले कारणाभावनिष्ठकारणताप्रतियोगिककार्याभावत्वावच्छिन्नकार्यता न विवक्षिता, किं त्वभावप्रतियोगित्वेनोक्तम् यत्कारणं तत्प्रतियोगिककार्यत्वावच्छिन्नैव । एवं कारणाभावोऽप्यभावत्वेनाभिधेयः । अतः कारणस्य तदभावाभावरूपत्वेऽपि कारणस्यैवोक्तिर्न तु तदभावाभावत्वेनेत्यदोषः । तथा च यत्र कारणानधिकरणक्षणोत्तरक्षणस्य कार्याधिकरणत्वमुच्यते सा विभावना । कारणाधिकरणक्षणोत्तरक्षणस्य च यत्र कार्यानधिकरणत्वमुच्यते सा विशेषोक्तिः । एवं चैकत्र व्यतिरेकव्यभिचारस्फुरणनिबन्धनः, परत्र चान्वयव्यभिचारस्फुरणनिबन्धनश्चमत्कार इति दिक् ॥
इति विशेषोक्तिः।
यथासंख्यं निरूपयति
निर्देशक्रमतो यदि समन्वयस्तद्यथासंख्यम् । येन क्रमेण पदार्था निर्दिष्टास्तेषां यदि क्रमनिर्दिष्ट पदार्थान्तरैः सह क्रमेणैव संबन्धस्तद्यथासंख्यम् । 'तेजः क्षितिर्घटो वह्निः' इत्यादिवारणाय . क्रमत इति ।
'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।
वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥' इत्यत्राधाक्षीदित्याद्यध्याहृतक्रियास्थले तद्वारणाय अन्वीयमानपदार्थानां निर्दिष्टत्वोपादानम् ।