________________
काव्यमाला।
तत्राद्या यथा'गमिआ कडम्बवाआ दि8 मेहन्धआरिअं गअणअलम् ।
सहिओ गज्जिअसद्दो तहवि खु से णत्थि जीविआसंवो।' अत्र कदम्बवाताभावादीनामाश्वासहेतूनां सत्त्वेऽपि श्रीरामस्य आश्वासाभाव उक्तः । आश्वासोत्पत्तिप्रतिबन्धकाश्च सप्तच्छदवातादय इति तेषामनुक्तिः । द्वितीया यथा
'स्मर स महुरितैर्विफलीकृतो भगवतोऽपि भवद्दहनश्रमः । __ सुरहिताय हितात्मतनुः पुनर्ननु जनुर्दिवि तत्क्षणमापिथ ॥'
अत्र कामदाहसामग्रीसत्त्वेऽपि तद्दाहाभाव उक्तः प्रथमार्धे । तन्निमित्तं च भैम्याः खदुरितमेवोपन्यस्तम् ।
वस्तुतस्तु-भैम्या न कामदाहमात्रमिष्टम् । अपि तु ध्वंसप्रतियोगिमात्रवृत्तिजात्यवच्छिन्नप्रागभावासमानकालीनः कामध्वंसः । सुरकार्योद्देशेन तस्य खगात्रहोमे च तस्यैव पुनरुत्पत्त्या ध्वंसविशेषणं गलितमिति विशेपणाभावप्रयुक्तविशिष्टाभावादेव कार्योद्देश्यस्वगात्रहोमनिमित्तक इति उत्तरार्धमप्युदाहरणं संभवत्येवेत्यवधेयम् । अन्त्या यथा'सो को वि गुणाइसओ ण आणिमो मामि कुन्दकलि(लइ)आए ।
अच्छीहिं चिअ पाउं अहिलिज(लस्स)इ जेण भसलेण(मरेहिं)॥'
अत्र कुन्दकलिकादर्शनसत्त्वेऽपि तदिच्छाविच्छेदाभाव उक्तः । तत्र च किंचिनिमित्तं लक्षणरूपमस्त्येव । न तु विशेष्यं वक्तुं शक्यमित्यचिन्त्यशक्तिरूपत्वम् ।।
अत्र वदन्ति-विभावनाविशेषोक्त्योर्न पार्थक्यं भवितुमर्हति । परस्परलक्षणव्याप्तविषयत्वात् । तथा हि-यत्र कारणाभावेऽपि कार्योत्पत्तिरु१. 'गमिता कदम्बवाता दृष्टं नेघान्धकारितं गगनतलम् ।
सोढो गर्जितशब्दस्तथापि खल्वस्या नास्ति जीवितेऽध्यवसायः॥' [इति च्छाया।] २. 'स कोऽपि गुणातिशयो न जानीमो मातुलानि कुन्दलतिकायाः ।
अक्षिभ्यामेव पातुमभिलप्यते येन भ्रमरैः ॥' [गाथा० ६।९१]..