________________
अलंकारकौस्तुभः ।
३१५
शेषणं देयम् । प्रकृते च पीडाया दाहाभेदाध्यवसानाद्दाहत्वं विषयितावच्छेदकम् । अपराधत्वं च विषयतावच्छेदकी भूतपीडात्वावच्छिन्नकार्यतानिरूपितकारणतायामवच्छेदकम् । न तु विषयितावच्छेद की भूतदाहत्वावच्छिन्नकार्यताप्रतियोगिककारणतायामिति तादृशापराधत्वावच्छिन्नप्रतियोगिताकाभावोक्त्यामपि नात्र विभावनाप्रसङ्गः ।
'खला विनैवापराधं दहन्ति जगतीतलम् ।'
इत्युक्तौ तु स्यादेव विभावना – इति ॥
-
तत्रापि चिन्त्यते । कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वेनाभावोक्तावेव विभावनेत्यत्र न ग्रन्थकृतामाग्रहः । 'निरुपादानसंभारमभित्तावे. वि) व तन्वते । जगच्चित्रं नमस्तस्मै कला श्लाध्याय शूलिने ||
इत्यादौ तदभावात् । न हि चित्रत्वावच्छिन्नकार्यता उपादानसंभारत्वावच्छिन्नकारणतानिरूपिता, अपि तु मसीत्वहरितालत्वाद्यवच्छिन्नकारणतानिरूपितैव । न चात्र मसीत्वाद्यवच्छिन्नप्रतियोगिताकत्वेनाभाव उक्तः । स्वीकृता चेयं विभावनैवालंकारिकधुर्यैरिति ।
वेदेऽपीयं यथा—
'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति विश्वं न हितस्य वेत्ता तमाहुराद्यं पुरुषं पुराणम् ॥' इति विभावना |
विशेषोक्तिं निरूपयति
eat सत्यपि कार्यानुत्पत्तिः स्याद्विशेषोक्तिः । सत्यां सामग्र्यां कार्यानुत्पादो विशेषोक्तिः । न चासामग्र्याः फलोपधानव्याप्यतया तदनुपपत्तिः । प्रतिबन्धकान्तरस्य सत्त्वेन तदविरोधात् । तदभावातिरिक्तसकलकारणसमवधानस्यैवात्र सामग्रीपदार्थत्वात् ॥
सा च त्रेधा – अनुक्तनिमित्ता, उक्तनिमित्ता, अचिन्त्यनिमित्ता च ।