________________
३१४
- काव्यमाला। यौवनोन्मदोत्पत्तौ चमत्कारानुपपत्तेः । आलोकपरामर्षव्यतिरेकेण धूमपरामर्षादनुमित्यनुत्पत्त्यादिवदनुपपत्त्यभावात् । किं चैवम्
'यदवधिविलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ इति भवदुक्तोदाहरणमपि दुर्घटम् । यौवनावधि हृदयदाहोक्तौ दाहे यौवनहेतुत्वस्यापि श्लोकात्प्रतीत्यविशेषात् । कारणशब्देनाभिधानस्याकिचित्करत्वात् ॥ तदुक्तं कुसुमाञ्जलावाचार्यैः
नियमस्यैवापेक्षार्थत्वात्तस्यैव च कारणार्थत्वात् ।' इति । तस्मात्त्याज्या चोक्तनिमित्ता विभावना, आश्रयणीया वा यथोतैवेति दिक् ॥ अनुक्तनिमित्ता यथा'भ्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी
मरुत्तरलतारकं स्फुटललाटचन्द्रद्युति । अकुङ्कुमकलङ्कितोज्वलकपोलमुत्प्रेक्ष्यते
निराभरणसुन्दरश्रवणपाशसौम्यं मुखम् ॥' यदपि
__ 'लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ।' इत्यत्र विभावनाप्रसक्तिं तदनभ्युपगमादिष्टापत्ति चोद्विभाव्य 'कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वमभावे विशेषणं देयम् । अत्र च प्रसिद्धकारणतावच्छेदकप्रतियोगिताकोऽभावो न तु कारणतावच्छेदकीभूतापराधत्वावच्छिन्नप्रतियोगिताकत्वेनापि कारणाभावोक्तेः । न च कायांशोऽतिशयोक्त्यभेदान्यतरालीढत्वेन विशेष्य इति वाच्यम् ।
'खला विनैवापराधं दहन्ति खलु सज्जनान् ।' इत्यादौ तथाप्यतिप्रसङ्गात् । तत्र पीडाया दाहाभेदाध्यवसानसत्त्वात्-' इति पूर्वपक्षयित्वा समाहितम्-'कार्याशे यद्विषयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपितकारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वमभावे वि.