________________
३१३
अलंकारकौस्तुभः । कारणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षणीयत्वादिति रसगङ्गाधरकृतः, तच्चिन्त्यम् । तीक्ष्णत्वादेः कारणतावच्छेदकत्वस्वीकारे उक्तिसंभवेऽपि कारणत्वाभिप्रायेणैव दीक्षितैर्भेदान्तरवर्णनात् ।
अ(इ)यं चोक्तानुक्तनिमित्तकत्वेन द्वेधा । आद्या यथा
अकुङ्कुममचन्दणं दहदिहावहूमण्डणं
असेहरमकुण्डलं भुअणमण्डलीभूसणम् । असोसणममोहणं मअरलञ्छणस्साउहं
मिअङ्ककिरणावली णहअलम्मि पुञ्जिज्जइ ।' अत्र कुङ्कुमाद्यभावेऽपि लेपनाद्यभिधानाद्विभावना । तत्र मृगाङ्ककिरणावल्या उक्तत्वादुक्तनिमित्तम् । यत्त'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥' अत्र द्वितीयचरणे आसवाभावेऽपि मदोक्त्या चोक्तनिमित्ता विभावनेति सर्वस्वकारादिमतं दूषयद्भिः रसगङ्गाधरकृद्भिरुक्तम्-विरोधमूलत्वादेतदाद्यलंकाराणां प्रकृते च यौवनस्य मदकारणतायाः कविनैव निबद्धत्वादासवयौवनयोर्मदं प्रति व्रीहियवयोर्यागं प्रतीव निरपेक्षकारणत्वावगमाद्विरोधास्फुरणाद्विभावनैवेयं न भवितुमर्हति कुतस्तद्विशेषः इति, तच्चिन्त्यम् । लोकप्रसिद्धकारणताकस्य मदस्य व्यतिरेकेऽपि यौवनान्मदोत्पत्त्यभिधाने विरोधस्य प्रतिभाने बाधकाभावात् । अन्यथा द्वयोनिरपेक्ष्यकारणत्वप्रतीतौ
१. 'अकुङ्कुममचन्दनं दश दिशावधूमण्डन
मशेखरमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं
मृगाङ्ककिरणावली नभस्तले पुञ्जीभवति ॥' [कर्पूरमअरी ३।२६] ४०