________________
अलंकारकौस्तुभः ।
३०५
इहान्यानभिभूतत्वं राहुग्रस्तत्वं चोत्कर्षापकर्षहेतू उक्तौ । ताराकान्त
शब्दः श्लिष्टः ।
यथा वा वासवदत्तायाम्
'सुराणां पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने गुरुरुचितमार्गे स निरतः । करस्तस्यात्यर्थे वहति शतकोटिप्रणयितां
स सर्वखं दाता तृणमिव सुरेशं विजयते ||' अत्र शृङ्गारशेखरसंज्ञस्य राज्ञ उत्कर्षहेतव इन्द्रापकर्षहेतवश्चोक्ताः । सुराणामित्यादौ च श्लेषः । प्रथमे एक उत्कर्षे एकश्चापकर्षे हेतुरुक्तः । इह त्वनेक इति विशेषः ।
उत्कर्षहेतुमात्रोक्तौ यथा
'रसजनकेन तिरस्कृतचन्द्ररुचा सततशोभेन । तावकमुखेन सुन्दरि नियतं परिभूयते पद्मम् ॥'
अत्र रसादौ श्लेषः । मुखोत्कर्षहेतुभूताश्च शृङ्गारजनकत्वम्, चन्द्राधिक्यम्, कालानवच्छिन्नशोभत्वं चोक्ताः । जलजन्यत्वं चन्द्रतिरस्कार्यत्वं दिनमात्रशोभित्वं पद्मापकर्षहेतवो नोक्ताः । अत्रैव शोभापदेऽर्थश्लेष इति विशेषः ।
अपकर्षहेतुमात्रोक्तौ यथा -
'उछृंहितमकरध्वजमतिविशदं तारकारम्यम् ।
तव मुखमिन्दुं निन्दति तस्य तमस्कन्दनीयत्वात् ॥' अत्र मुखोत्कर्षे तमोऽनभिभाव्यत्वं हेतुरनुक्तः । चन्द्रापकर्षे च राहुपरिभाव्यत्वं हेतुरुक्तः । मकरध्वजादिशब्दाः श्लिष्टाः ।
द्वयोरनुक्तौ यथा—
' अत्युन्नतेन कठिनस्पर्शेन रसाहरणकर्त्रा । वक्षोरुहेण ते सखि कुम्भः प्रतिगर्जितः प्रोच्चैः ॥'
अत्र स्तनोत्कर्षहेतुरन्तः पूर्णत्वम्, घटापकर्षहेतुरन्तः शून्यत्वं द्वयमप्यनु
३९