________________
काव्यमाला।
यन्नाकपालकलनाविदितस्य पत्यु
__रत्रापि जन्मनि सती भवती स भेदः ॥' अत्र भैम्युत्कर्षहेतुरेतज्जन्मन्यपि पातिव्रत्यमुक्तम् । भवान्यपकर्षहेतुश्च सतीपदवाच्यत्वाभावोऽनुक्तः । ___ अपकर्षहेतुमात्रोक्तौ यथा
'तापिच्छनीलचिकुरां रसपरिपूर्णी सुगम्भीराम् ।
प्रावृट्कालनदीमिव न कुतश्चिद्भङ्ग एति त्वाम् ॥ इह नद्यास्तरङ्गयोगे हेतुः प्रावृडुक्ता, नायिकाया अन्यतोऽपकर्षानवाप्तौ च सर्वाधिक्यं हेतुरनुक्तः । भङ्गपदं श्लिष्टम् । द्वयोरनुक्तौ यथा
'अरविन्दतुन्दिलाङ्गी मर(रा)लिकागमनशालिनी सुभ्र ।
सरसीवन्न कदाचिद्यासि रसस्याविलीभावम् ॥' अत्र सरोजस्य कालुष्ये च धर्मादिकं हेतुः । शृङ्गाराख्यरसस्य निर्दोषत्वे तत्सामग्री उपनायकविषयत्वाद्यभावश्च हेतुरनुक्तः । रसपदं श्लिष्टम् । यथा वा भिक्षाटने
'भृङ्गागने सखि ममापि तवापि तुल्या __श्रीकण्ठकण्ठरुचिरप्यथ कोऽपि भेदः । पुष्पेषु चेष्टितमतीव तवानुकूलं
- सत्यं तदैव तु मम प्रतिकूलमासीत् ॥' अत्र पुष्पाधिकरणकक्रीडाया भृङ्गी प्रत्यनुकूलत्वे मधुप्राप्तिहेतुत्वम् । नायिका प्रति कामव्यापारस्य प्रातिकूल्ये च इच्छाविषयशिवालाभो हेतुः । तदुभयमप्यनुक्तम् । पुष्पेषु चेष्टितमिति खण्ड श्लेष इति पूर्वस्माद्विशेषः । आक्षिप्ते साम्ये यथा
'अन्येनानभिभूतं ताराकान्तं त्वदीयास्यम् ।
खर्भानुना कवलितं ताराकान्तं पराजयते ॥' १. सप्तविंशपद्धतौ षष्ठमिदं पद्यम्.