________________
उभयानुक्तौ यथा
अलंकारकौस्तुभः ।
'सौरभ्यवासितदिशो विहितपिकीरुतविशेषायाः । सहकारमञ्जरीवत्तव नास्ते भृङ्गसंसर्गः ॥'
अत्र रसालमञ्जर्याः भ्रमरसंबन्धे मधुरसो हेतुः नायिकायाः परपुरुषसंसर्गाभावे च शुद्धान्तःकरणत्वं हेतुः उभयमपि नोक्तम् । हेतुपदस्य प्रयोजकसाधारण्येन भृङ्गसंसर्गतदभावयोरुत्कर्षापकर्षहेत्वोरुक्तावपि भृङ्गसंसर्गतदभावहेतुभूतयोर्मधुरसशुद्धान्तः करणत्वयोरनुक्त्या उभयानुक्तिरित्यदोषः । भृङ्गपदं श्लिष्टम् ।
आर्थे साम्ये द्वयोरुक्तौ यथा
'न्यक्कृतसरोजशोभं मुखमस्याश्चन्द्रमाश्च सममेव । नित्यैकरूप्यविरहात्स कलङ्की - तन्न गुणदोषात् ॥'
अत्र चन्द्रमसः कलङ्कित्वे सर्वदा ऐकरूप्याभावः मुखस्याकलङ्कत्वे तु गुणोत्कर्षो हेतुरिति द्वावुक्तौ कलङ्कपदस्य चिह्नदोषोभयार्थक श्लेषः ।
उत्कर्ष हेतुमात्रोक्तौ यथा—
३०३
'अयमुल्लङ्घितकर्णस्त्वदपाङ्गः पार्थवत्तन्वि ।
अविहीनशक्तिकतया न प्राप्तपराजयः क्वापि ॥'
अत्र कटाक्षोत्कर्ष हेतुरनपकृष्टसामर्थ्यवत्त्वमुक्तम् । अर्जुनापकर्षहेतुश्च भगवद्गृहीतसारत्वमनुक्तम् । परेषामन्येषाम् । अजयो वशीकाराभावः स येन प्राप्तः तथा नास्ति परवशीकरणयोगव्यवच्छेदवानिति नेत्रपक्षे । प्राप्तः पराजयः परिभवो येनेत्यन्यत्र । पराजयपदश्लेषः । तुल्यार्थवतिरिति आर्थं पदसादृश्यम् ।
यथा च नैषधे—
'भूभृद्भवाकभुविराजशिखामणेस्त्वं
त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् ।
१. 'सा सर्वभोग' ख.