________________
३०२
काव्यमाला। अपकर्षहेतुमात्रोक्तौ यथा
'उद्दीपितकुसुमशरा श्रुतिसुभगा सुभ्र ते वाणी ।
मधुमासमात्ररम्यां परभृततरुणीगिरं जयति ॥ अत्र कोकिलरुतापकर्षहेतुर्वसन्तमात्ररम्यत्वमुक्तम् । नायिकावचनोत्कर्षहेतुश्च सर्वदारम्यत्वमनुक्तम् । द्वयोरनुक्तौ यथा'गुणयुक्तेन श्रुतिपथविजृम्भमाणेन नेत्रभङ्गेन ।
वरतनु मन्मथविशिख[स्] त्वयास्ति नीतोऽधरीभावम् ॥' अत्र कटाक्षोत्कर्षहेतुरन्यस्य कामाधीनत्वकरणरूपः, बाणापकर्षहेतुश्च कटाक्षान्वयव्यतिरेकानुविधानमिति द्वयोरप्यनुक्तिः ॥
एवमश्लिष्टभेदा द्वादश व्याख्याताः । इदानीं श्लिष्टभेदा उच्यन्ते । तत्र शाब्दे साम्ये द्वयोरुक्तौ । यथा
'अपि तापोत्कर्षकृता कुसुमशरेण तज्जन्योऽयम् ।
स्नेहो न हीयते सखि तदधीनेनानलेनेव ॥ अत्र तैलादिनिष्ठस्नेहाख्यगुणविशेषस्य वह्निना(?) स्नेहशब्दः श्लिष्टः ॥ उत्कर्षहेतुमात्रोक्तौ यथा
'विशदीकृताखिलभुवः सकलमनोनयनरम्यायाः ।
खाभाविकस्तवायं ज्योत्स्नावन्न क्षयी रागः ॥' इह नायिकारागस्य खाभाविकत्वमुत्कर्षहेतुरुक्तः । ज्योत्स्नारुणस्य संध्याधीनत्वमपकर्षहेतु!क्तः । रागपदं श्लिष्टम् । इवार्थे वतिरिति शाब्दं सादृश्यम् । अपकर्षहेतुमात्रोक्तौ यथा'स्मितकुसुमसुरुचिरा नवपरिमलसंभृतदिगन्ता त्वम् ।
तन्मात्रसाध्यजन्मा नलिनीव न जातपङ्कसङ्गासि ॥' अत्र पद्मिन्याः कर्दमयोगावश्यकत्वहेतुः तव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं तन्मात्रेऽप्युक्तम् । नायिकाया निषिद्धकर्मयोगाभावहेतुः शुद्धत्वं नोक्तम् । पङ्कपदं श्लिष्टम् ।