________________
अलंकारकौस्तुभः ।
३०१
अत्रापकर्षहेतुः पङ्कजत्वमुक्तम् । प्रशस्तकारणजन्यत्वं नयनोत्कर्ष -
हेतुनः ।
उभयानुक्तौ यथा—
'अतितरले रमणीये श्रुतिपरिसरखेलनासक्ते । चन्द्रमुखि लोचने ते न मृगाक्षिभ्यां कचित्तुल्ये ॥' अत्रोत्कर्ष हेतुर्विज्ञसंबन्धित्वमपकर्षहेतुश्च पशुसंबन्धित्वमिति द्वयोरप्य
नुक्तिः ।
अथाक्षिप्तसाम्यभेदेषु द्वयोरुक्तौ यथा
'अधरदला स्तनगुच्छा स्मितकुसुमा त्वं सरोजाक्षि । विज्ञतमा ध्रुवमज्ञां काञ्चनवल्लीं तिरस्कुरुषे ||'
अत्र इवतुल्यादिपदाभावादाक्षिप्तं सादृश्यम् । आक्षेपश्च व्यञ्जनेत्येके । जेतृत्वादिहेतुकानुमानमित्यन्ये । विज्ञत्वमुत्कर्षहेतुः । अज्ञत्वं चापकर्षहेतुरुक्तः ।
यथा वा मुद्राराक्षसे
'यो नन्दमौर्यनृपयोः परिभूय लोकमस्तोदयावविशदप्रतिभिन्नकालम् । पर्यायपाति हि हिमोष्णमसर्वगामि
धाम्नातिशाययति धाम सहस्रधाम्नः ॥'
अत्र चाणक्यतेजस उत्कर्षहेतुर्युगपत्प्रभविष्णुत्वम् । सूर्यतेजोपकर्षहेतुश्च क्रमसामर्थ्यमुभयमुक्तम् । असर्वगामीत्यपकर्षहेतुः । सर्वगत्वमुत्क - हेतुश्चेत्युभयमुक्तमिति उभयत्र हेतुद्वयोक्त्या विशेषः । अतिशाययतीत्याक्षिप्तमौपम्यम् ।
उत्कर्ष हेतुमात्रोक्तौ यथा—
'खविरोधिरसान्तरबद्द्रव्यसमानाधिकरणताहीनः ।
बिम्बाधरः सुमुखि ते तिरस्करोतिीह पीयूषम् ॥' इहाधरस्य उत्कर्षहेतुः पूर्वार्धोक्तः । सुधापकर्षहेतुश्च तादृशकालकूटसमानाधिकरणत्वमनुक्तम् ।