________________
३००
काव्यमाला |
अत्र पद्मकान्तेः परिच्छिन्नत्वे भास्वदधीनत्वे हेतुरुक्तः । मुखरुचेरपरि - च्छिन्नतायामन्यानधीनत्वं हेतुरनुक्तः । इवार्थे वतिप्रत्यययोगात् श्रौतं साम्यम् ।
उभयहेत्वनुक्तौ यथा -
‘अतिनिबिडस्य हृताखिलदर्शनशक्तेस्तमोव्रजस्येव । धम्मिल्लस्य न तेऽक्षिश्यामलता तेजसा नाश्या ॥' अत्र केशपाशनिष्ठश्यामलतायास्तेजोजन्यनाशाप्रतियोगित्वे । आर्थे साम्ये यथा—
‘विजितारविन्दकान्तेः ः शुद्धस्य भवन्मुखस्य रम्भोरु | सकलङ्कचन्द्रवन्न हि निभालयामीह लावण्यम् ॥'
अत्र ‘तेन तुल्यम्' इति विहितस्य वतेः प्रयोगादार्थं साम्यम् । शुद्धकलङ्कित्वरूपमुत्कर्षापकर्षहेतुद्वयमुक्तम् ।
यथा च माघे
'मुदितजनमनस्कास्तुल्यमेव प्रदोषे
द्वयमुक्तम् ।
रुचिमदधुरुभय्यः कल्पिता भूषिताश्च ।
परिमलरुचिराभिर्न्यकृतास्तु प्रभाते
युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥' अत्र युवतीनां खजानां चोपभोगसहत्वतदभावरूपमुत्कर्षापकर्षहेतु
तत्रैवोत्कर्ष हेतुमात्रोक्तौ यथा
'लोकविलक्षण गुणगणशालिन्यपि चन्द्रवदनेयम् । विनयभरप्रचुरतया न मदेनान्याङ्गनासदृशी ॥'
अत्रोत्कर्षहेतुर्विनयवत्त्वमुक्तम् । अपकर्षहेतुरौद्धत्यं चानुक्तम् । अपकर्षहेतुमात्रोक्तौ यथा—
'श्यामात्मकं प्रकामं कन्दलितानन्दसंदोहम् | इन्दीवरेण नयनं न समं तव पङ्कजातेन ॥'