SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः। २९९ प्रयोजको यो धर्मस्तत्प्रयुक्तसादृश्यनिषेधप्रयुक्तोत्कर्षस्यैवालंकारत्वात् । उक्तस्थले च सहस्रनेत्रत्वप्रयुक्तसादृश्यनिषेधस्य वास्तवत्वेनालंकारत्वात् । आपाततो निन्दाप्रतीत्युत्तरसादृश्यप्रतीतेश्च व्याजस्तुतावेवान्तर्भावादिति दिक् । तं विभजते हानिप्रकर्षहेत्वोरुक्ती त्रेधा च तदनुक्तौ । शब्दार्थाक्षेपोत्थे साम्ये श्लेषे च दिग्युगमितः सः॥१॥ अयमर्थः-स व्यतिरेको दिग्युगमितः चतुर्विंशतिसंख्यः । कथमि. त्यत आह-हानीत्यादि । उपमानस्यापकर्षनिमित्तम्, उपमेयस्योत्कर्षनिमित्तं चेत्युभयमपि यत्रोक्तं तत्रैकः । अपकर्षहेतुमात्रस्य उत्कर्षहेतुमात्रो(त्रस्यो)क्तौ द्वयोरप्यनुक्तौ च त्रयो भेदाः, इति चत्वारः । ते च प्रत्येकं शाब्दे आर्थे आक्षिप्ते च सादृश्ये इति द्वादश भेदाः । सर्वेषां श्लेषाश्लेषाभ्यां द्वैविध्याच्चतुर्विंशतित्वमिति । अथ द्वादशश्लिष्टभेदेषु द्वयोरुक्तौ श्रौते साम्ये यथा 'ध्वान्तं विनाशयन्त्या अत्युज्ज्वलदेहलतिकायाः । न हि ते चपलाया इव भा क्षणिका कामिनि स्थना ॥' अत्र स्थैर्यचपलत्वरूपमुत्कर्षापकर्षहेतुद्वयमुक्तम् । इवपदोपादानात् श्रौतं साम्यम् । उत्कर्षहेतुमात्रोक्तौ यथा 'वैशयं भावयतो निखिलजनोल्लासनाहेतोः । ___ अपचयरहितस्य तवानतस्य नेन्दोरिव द्युतेर्हानिः ॥ इह मुखोत्कर्षजनकमपचयरहितत्वमुक्तम् । इन्द्वपकर्षहेतुसाहित्यं चानुक्तम् । अपकर्षहेतुमात्रोक्तौ यथा'सकललोचनमानसहारिणोऽतिशयितां दधतः सुकुमारताम् । तव मुखस्य रुचिर्न परिच्छिदां भजति भाखदधीनसरोजवत् ॥' . 'वंशय भावना
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy