________________
२९८
काव्यमाला। कृतालकाभर्तुर्वदनपरिपाटीषु घटना
___मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ इत्यत्राप्युपमेये वक्तरि कुशलवसुताप्राप्त्यभावस्य न्यूनतारूपस्यापि दै. न्यादिसमुत्कर्षत्वादाधिक्यमेव । एवम्'रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः __ सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ इत्यत्रोपमेयस्योत्कर्ष इत्यपास्तम् । सशोकत्वस्य खापमानोत्कर्षकत्वेनाधिक्यरूपत्वात् ।
'अण्णाण वि होन्ति मुहे पझलधवलाइं दीहकसणाई ।
णअणाइं सुन्दरीणं तह उण(विहु)द8 ण आणन्ति ॥' अत्र हि प्रकृतनायिकाया उपमानत्वं नायिकान्तराणामुपमेयत्वम् । । तथा पुनर्द्रष्टुं न जानन्तीति व्यतिरेक उपमेयानाम् । तथा च 'वर्णनीयनायिकानिष्ठविजातीयदर्शनप्रतियोगिकसादृश्यवदर्शनानभिज्ञत्वमितरनायिकानाम्' इति वाक्यार्थः । एवं च यद्यपि तासामुपमानापकर्षः प्रतिभाति, तथापि तादृशज्ञानाभावस्य तदवज्ञारूपप्रकृतार्थातिशायकत्वमस्त्येवेति न दोषः। यद्य(द)प्युपमेयापकर्षोदाहरणं रसगङ्गाधरे कृतम्'जगत्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन् । .
कथं समारोहति हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः ॥' अत्र 'धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तु समानः' इति प्रतीतेरलंकारतेति, तदपि चिन्त्यम् । धर्मान्तरप्रयुक्तसादृश्यविवक्षागर्भधर्मविशेषप्रयुक्तसादृश्यनिषेधस्यैव व्यतिरेकशरीरत्वेन सर्वाभ्युपगतत्वात् । सादृश्य१. 'अन्यासामपि भवन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि ।
नयनानि सुन्दरीणां तथापि खलु द्रष्टुं न जानन्ति ॥' [गाथा० ५।७०].