________________
अलंकारकौस्तुभः ।
२९७ इति भगवता भरतमुनिना दीपकस्याङ्गीकारात् तत्रैव तुल्ययोगितान्तर्भावस्यौचित्यादिति दिक् ॥
___ इति तुल्ययोगिता। व्यतिरेकं निरूपयति
उदयोः साम्यप्रोक्तौ विशेष उपमेयगे व्यतीरेकः । यत्र केनचिद्धर्मेणोपमानापेक्षया उपमेयस्य वैलक्षण्यं वर्ण्यते स व्यतिरेकः । व्यतिरिच्यते उपमानाट्यावर्त्यते अनेन उपमेयमिति व्युत्पत्तेरित्यर्थः ।
ननु__'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥' इत्यत्रोपमानभूते चन्द्रे पुनर्वैधर्म्यमुक्तम् । तथा च क्वचिदुपमेयापेक्षया उपमानस्य विशेषोक्तावप्यस्य संभवः। तत्कथमुक्तम् ‘विशेष उपमेयगे' इतिइति चेत् , मैवम् । प्रकृतार्थानुकूलत्वरूपस्य विशेषस्य तत्रापि तत्रावृत्तित्वात् । तथा हि । न चन्द्रयौवनयोरुपमानोपमेयभावो विवक्षितः । किं तु चन्द्रक्षययौवनक्षययोरेव । तत्र चन्द्रक्षयस्य वृद्धिप्रागभावसमानकालीनत्वेन न्यूनत्वम्, यौवनक्षयस्य चाग्रे तच्छरीरावच्छेदेन यौवनाभावात्समानाधिकरणयौवनप्रागभावसमानकालीनत्वं नास्तीत्याधिक्यम् । एवं च विवक्षितस्य मानत्यागस्यावश्यकत्वसिद्धिरिति ।
ननु तथापि क्वचिदुपमानादुपमेयापकर्षेऽप्ययं दृश्यते । यथा
'हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दीत्यपथः सितीकृतः ।' अत्र हि नलेन हनुमदादिदू(दौ)त्यापेक्षया स्वकृतदू(दौ)त्ये हीनत्वं प्रदर्श्यत इति चेत्, न । उत्कर्षापकर्षों ह्यत्र न वास्तवाभिमतौ, किंतु प्रकृतार्थातिशायकत्वानतिशायकत्वखरूपौ । प्रकृतश्चात्र नलनिर्वेदः, तदुत्कर्षकत्वं च दौत्यनिष्टोक्तापकर्षस्याप्यस्तीति न दोषः । एवम्'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । १. 'कुलतया' ख.
३८