________________
३०६
काव्यमाला । क्तम् । अत्युन्नतेत्यर्थश्लेषः । रसेति शाब्दश्लेषः । 'स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति' इति दण्ड्युक्तेः । प्रतिगर्जितेत्यौपम्याक्षेपः । एवं च-, तुर्विशतिभेदा व्याख्याताः। एवम्-- 'राहुग्रासपराभवं न लभते न म्लान(नि)माविन्दते .
चण्डांशोः किरणैर्न वा मृगदृशामास्यैः पराजीयते । नैवाभ्रेण पिधीयते न च कुहूकालेन संक्षीयते
भूमीभूषण रुद्रचन्द्र भवतः प्रौढो यशश्चन्द्रमाः ॥' इत्यादावाक्षिप्ते साम्ये व्यतिरेको ज्ञेयः । अभेदस्यैवात्र शाब्दत्वेन सादृश्याक्षेपत्वात् । . क्वचिज्जयत्यादिपदाभावेऽप्येकधर्मावच्छिन्नतयैव साम्याक्षेपः । यथा'प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने __तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमौ
यद्वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥' अत्र कश्यपाश्रमवासिनां मुनीनां मुन्यन्तरापेक्षया व्यतिरेक उक्तः । तेषां च सादृश्यबोधकाभावात् मुनित्वमेव तदाक्षेपकम् ॥ क्वचित्तु विशेषणश्लेषादेव तदाक्षेपः । यथा नैषधे'अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ
सीत्कारं च न संमुखं रचयतः कम्पं च न प्रामुतः । तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयो
रेकस्तत्र भिनत्ति मित्रमपरश्वामित्रमप्यद्भुतम् ॥' अत्र संख्यपातावर्थश्लेषेण अरिशरयोः साम्याक्षेपः । मित्रेत्यादि-' व्यतिरेकः ।