________________
२९४
काव्यमाला।
इह सर्वत्र क्रियासु तत्रेतिपदनिर्देश्यस्य हिमाचलस्याधिकरणत्वम् । यथा'काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते
तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपःपूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं
वीरुनीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः॥ अत्र कथं मध्याह्नः । तथा ह्यत्र संप्रतीतिप्रक्रमान्मध्याह्नरूपकालस्य सर्वत्राधिकरणत्वम् । मालादीपकमाह
माला तु पूर्वपूर्वे विध्यन्तरेणोत्तरान्वयिनि । तस्यां क्रियायां रूपान्तरेणान्वितस्य पुनस्तस्यामेव रूपान्तरेणान्वये मालादीपकमित्यर्थः ।
यथा'जैलणणिवहम्मि सलिलं साणलणिवहुच्छलन्तसलिलम्मि णहम् । सलिलणिवहोत्थअम्मि अ अत्थाअइ णहअले दसदिसाअक्कम् ॥
अत्र रामशराहतसमुद्रवर्णने ज्वलननिवहे सलिलमस्तायत सलिलस्य अस्तप्राप्तिक्रियायां कर्तृत्वेनान्वितस्य पुनः सलिले नभोऽस्तायत इति नभःकर्तृकायामेवास्तक्रियायामाधारत्वेनान्वयः । यथा वा मम'लावण्येन भवत्कलेवरमिदं तेनोत्कटं यौवनं
तेनासौ सुतनु प्रसूनविशिखस्तेन द्रुतं कार्मुकम् । तेन प्रापि पुनः शिलीमुखगणस्तेनापि मन्मानसं
तेनोत्तापभयप्रमाथदलनभ्रान्तिप्रमोहोदयः ॥' अत्र प्रापीति क्रियायां पूर्व कर्मीभूतस्य पश्चात्तत्रैव कर्तृत्वमित्यादिरीत्या मालात्वम् ।
इति दीपकम् । १. 'ज्वलननिवहे सलिलं सानलनिवहोच्छलत्सलिले नभः ।
सलिलनिवहावस्तृते चास्तायते नभस्तले दशदिक्चक्रम् ॥ [सेतु० ५।७४]