________________
अलंकारकौस्तुभः।
२९६ 'कामो विमुञ्चति शरानतिमात्रतीक्ष्णा__निर्भर्त्सनामभिदधाति पिकः कलेन । चन्द्रो ददाति किरणैर्बलदुल्मुकानि
___ मह्यं न सह्यदयिताविरहव्यथाय ॥' इह सर्वत्र मद्यमित्यस्य संप्रदानत्वम् । 'शिष्याय चपेटसं ददाति' इत्यादिदर्शनेन भाष्यकारमते संप्रदानताया अन्वर्थत्वानङ्गीकारेण सर्वत्र मुख्यत्वाभ्युपगमात् । अपादानस्य यथा ममैव
'निर्यान्ति तीक्ष्णमकरध्वजबाणधारा ___ अभ्युत्पतन्ति घनसाररजःप्रवाहाः । उद्यन्ति संतमससंततयः समन्ता
कान्ते निरन्तरमनन्तरितादृगन्तात् ॥' अत्र सर्वत्र दृगन्तस्यापादानत्वम् । संबन्धिनो यथा'स्वाम्यं यस्य निजं जगत्सु जनितेष्वादौ ततः पालनं ___ व्युत्पत्तेः करणं हिताहितविधिव्याधेः ससंभावनम् । भूतोक्तिः सहसा कृपा निरुपधिर्यनस्तदर्थात्मक
स्तस्मै पूर्वगुरूत्तमाय जगतामीशाय पित्रे नमः ॥' यद्यपि कारकपदस्य विभक्त्यर्थद्वारा क्रियान्वयिनि शक्ततया षष्ठयर्थस्य च नामार्थ एवान्वयेन क्रियान्वयविरहाद्यस्येति पदस्य न कारकत्वम् । तथापि पालनादिसमभिव्याहारे 'कर्तृकर्मणोः कृति' इति षष्ठीविधानात् तत्र कर्मत्वलक्षणावश्यकत्वेन तस्य क्रियान्वयादस्योदाहरणत्वमविरुद्धम् । अधिकरणस्य यथा'शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः । निॉदी ते मुरज इव चेत्कन्दरेषु ध्वनिः स्या
त्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥'