________________
२९२
काव्यमाला। अत्र निन्दतीत्यादिक्रियासु रामः कर्ता । यथा वा'स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं
जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून् । मुकुलयति च नेत्रे सर्वथा सुभ्र खेद
स्त्वयि विलसति तुभ्यं वल्लभालोकनेन ॥ इह खेदस्य सर्वकर्तृत्वम् । यथा वा'नागच्छन्नुपहूयते न वचनोत्थानासनैः पूज्यते
नो पृच्छन्ननुभाव्यते न च दृशा सान्द्रादरं वीक्ष्यते । ईर्ष्यालेशकषायिते हृदि घृणालेशोऽपि न स्पृश्यते
किं त्वेकं प्रवदन्समञ्जसमिति प्राज्ञः शठैर्हस्यते ॥ इह सर्वत्र शठानां कर्तृत्वेनान्वयः । कर्मणो यथा'अग्याइ छिवइ चुम्बइ ठेवइ हिअअम्मि जणिअरोमञ्चो ।
जाआकवोलसरिसं पेच्छह पहिओ महुअउप्फम् ॥ अत्र मधूकपुष्पाणामाघ्राणादिक्रियासु कर्मत्वम् । करणस्य यथा'पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाच्छेषं वाञ्छत्यपहरति गात्राणि निभृतम् । न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥' अत्र सर्वत्र लज्जायाः करणत्वम् । संप्रदानस्य यथा मम१. 'आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाश्चः ।
जायाकपोलसदृशं पश्यत पथिको मधूकपुष्पम् ॥' [गाथा० ७॥३९]