________________
यथा
-
अलंकारकौस्तुभः ।
'फैलसंपत्ती समोणआई तुङ्गाई फलविअत्तीए 1
हिअआई सेज्जणाणं महातरूणं व सिहराई || ' अत्र सज्जनाः प्रकृतत्वादुपमेयाः, तरुशिखराण्युपमानानि तेषां समानतत्त्वतुङ्गत्वाभ्यां गुणाभ्यामेकपदोपात्ताभ्यां सहान्वयः ।
यथा च
'मुक्कसलिला जलहरा अहिणवदिण्णफला अ पाअवणिवहा । लहुआ विहन्ति गरुआ समरमुहोहरिअमण्डलग्गा अ भुआ || ' अत्र राक्षसवधार्थं वानरानुत्तेजयतः सुग्रीवस्योक्तौ भुजाः प्रकृतत्वादुपमेयाः । जलधरादय उपमानभूताः सर्वेषां गुरुत्वेनान्वयः । . क्रियादीपकं यथा—
'छैज्जइ पहुस्स ललिअं पिआइ माणो खमा समत्थस्स । जाणन्तस्स अ भणिअं मोणं अ अआणमाणस्स ॥'
२९१
अत्र मानस्य प्रकृतत्वादुपमेयत्वम् । सर्वेषां ' छज्जइ' पदवाच्यायां शोभते इति क्रियायामन्वयः ।
यत्रैकमेव कारकमन्वयमेति क्रियासु बह्वीषु ॥ १ ॥ यत्रैकमेव कारकमनेकक्रियास्वन्वितं तदपि दीपकमित्यर्थः । तत्र कर्तृ
कारकस्य यथा
'णिन्दइ मिअङ्ककिरणे खिज्जइ कुसुमाउहे जुउच्छइ रअणिम् । झीणो वि णवरि झिज्जर जीवेज्ज पिएत्ति मारुइं पुच्छन्तो ।'
――――――――
१. ‘फलसंपत्त्या समवनतानि तुङ्गानि फलविपत्त्या ।
हृदयानि सज्जनानां महातरुणामिव शिखराणि ॥ [ गाथा० ३।८२ ] २. गाथासप्तशत्यां तु 'सुपुरिसाणं' इति पाठः.
३. 'मुक्तसलिला जलधरा अभिनवदत्तफलाश्च पादपनिवहाः ।
लघवोऽपि भवन्ति गुरवः समरमुखावहृतमण्डलाग्राश्च भुजाः ॥' [सेतु०३ | ३७] ४. 'शोभते प्रभोर्ललितं प्रियाया मानः क्षमा समर्थस्य ।
जानतश्च भणितं मौनं चाजानतः ॥ [ गाथा ० ३ | ४३]
५. ‘निन्दति मृगाङ्ककिरणान्खिद्यते कुसुमायुधे जुगुप्सते रजनीम् ।
क्षीणोsपि केवलं क्षीयते जीवेत्प्रियेति मारुतिं पृच्छन् | [सेतु० ५/५ ]