________________
२९०
काव्यमाला।
स्थित इति प्रकृतप्रतीतिविशदीकरणमात्रार्थ न तु सादृश्यप्रतिपत्त्यर्थमित्यनयोर्भेदः-इति वदन्ति ॥ . ___ अत्र रसगङ्गाधरकृतः–प्रतिवस्तूपमायां प्रकृताप्रकृतयोः सादृश्यप्रतीतिः न तु दृष्टान्ते इत्याज्ञामात्रम् अविशेषात् वैपरीत्यस्यापि सुवचत्वाच्च । एतादृशोऽर्थोऽन्यत्रापि स्थित इत्यस्यापि सादृश्य एव पर्यवसानाच । किं
चैवम्
'देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर्लवित एव वानरभटैः किं त्वस्य गम्भीरता
___ मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥' इत्यत्र यद्यपि ज्ञानरूप एको धर्मो निर्दिष्टः, तथापि न तत्प्रयुक्तमौपम्यं विवक्षितम् । यत्प्रयुक्तं विवक्षितं तच्च लङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनमिति सर्वस्वकारग्रन्थविरोधो दुष्परिहरः स्यात् । तस्माद्वस्तुप्रतिवस्तुभावबिम्बप्रतिबिम्बभावाभ्यां धर्मोपादानादेव भेदः । परमार्थतस्तु उभयोरेकालंकारत्वमेव यत्किंचिद्वैधय॑ च भेदत्वस्यैव प्रयोजकं न त्वलंकारान्तरताया इत्याहुः, तन्न । सादृश्यप्रत्ययस्योभयत्राङ्गीकारेऽपि एकत्र प्रकृतकार्यकारणभावग्राहकव्याप्तिनिश्चयप्रयोजकसहचारग्राहकत्वमप्रकृतार्थस्य, अपरत्र च न तथेति भेदस्य स्फुटतरत्वात् । सादृश्यप्रतीतिमात्रेणैक्याभ्युपगमे सर्वविप्लवापत्तेरिति दिक् ॥
इति दृष्टान्तः । दीपकं निरूपयति
प्रकृतामकृतानां यद्येकान्वयितास्ति दीपकं तत्स्यात् । यत्रोपमानोपमेयभूतानां प्राकरणिकाप्राकरणिकानामेकपदोपात्तेन गुणक्रियादिना धर्मेणान्वयस्तद्दीपकम् । दीप इव दीपकम् । 'संज्ञायां कन्' । दीपस्यैकस्यैव सकलप्रकाशकत्ववदेकत्वस्यैव सर्वैः समन्वयबोधजनकत्वेन तत्साधादित्यर्थः । दीपयतीति दीपकमित्यन्ये ॥
१. 'तत्र' ख.