________________
अलंकारकौस्तुभः । त्रोत्तरवाक्यार्थो दृष्टान्तत्वेन पर्यवस्यति स इत्यर्थः । तेन न निदर्शनासंकर इत्युक्तं प्राक् । यथा- 'सरोषापि सरोजाक्षि त्वमुदेषि मुदे मम ।।
तप्तापि शतपत्रस्य सौरभायैव सौरभा ।' अत्र रोषतापयोरानन्दसौरभयोश्च बिम्बप्रतिबिम्बभावः । तत्र नलानन्दं प्रति भैम्या अन्वयव्यतिरेकाभ्यां कारणत्वे ग्राह्ये यद्यन्वयव्यतिरेकानुविधायि तत्तजन्यम् । यथा सूर्यप्रभान्वयाद्यनुविधायि पद्मसौरभमिति द्वितीयार्धस्य दृष्टान्तत्वपर्यवसानम् । एतच्च साधर्येण । वैधर्येण यथा'वेलातिगस्त्रैणगुणाब्धिवेणिर्न योगयोग्यासि नलेतरेण ।
संदृभ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन ।' अत्र पूर्वार्धे यद्यपि नलान्ययोगानहत्वमेवोक्तम् , तथापि तावता नलयोग्यत्व एव तात्पर्यम् । 'पार्थ एव धनुर्धरः' इत्यादावन्ययोगव्यवच्छेदस्थलेऽपि पार्थस्य धनुर्धरत्वावगमात् । अन्यथा तदानीं 'पार्थो धनुर्धरो न वा' इति संशयप्रसङ्गात् । तथा चान्वयव्यतिरेकाभ्यां वस्तुनः खसमानगुणवत्संयोगयोग्यत्वे ग्राह्ये 'यद्यद्विजातीय गुणवत्तन्न तत्संगमाईम्' इति व्यतिरेकदृष्टान्त उत्तरार्धे उक्तः । तद्विपर्ययेण 'यद्यद्गुणसजातीयगुणवत्तत्तत्संगमार्हम्' इत्यनेन प्रागुक्तार्थसिद्धिः । यथा वा मालारूपेणाप्ययं दृश्यते। यथा'व्यतिषजति पदार्थानान्तरः कोऽपि हेतु
र्न खलु बहिरुपाधीप्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्यते चन्द्रकान्तः ॥' अत्र केचित्-प्रतिवस्तूपमायामप्रकृतवाक्यार्थोपादानं तेन सह प्रकृ. तस्य सादृश्यप्रतिपत्त्यर्थम् , दृष्टान्ते तु तदुपादानम्, एतादृशोऽर्थोऽन्यत्रापि