________________
२८८
काव्यमाला। कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रसृतं __ सीतायाः पुरतश्च हन्त मिथिलाबर्हाः सगर्हा इव ॥' अत्र इन्द्वादीनामपकृष्टत्वरूप एको धर्मः प्रतिवाक्यभिन्नेनाञ्जनलिप्तत्वादिनोक्तः ।
एवम्-'उत्क्षिप्तं सहकौशिकस्य पुलकैः' इत्यत्र एकस्यैव साहित्यस्य सहसार्धादिशब्दैरुपादानमिति वदन्ति, तत्रोभयत्रापि येषु वाक्येषु धर्मस्य शब्दान्तरेण निर्देशस्तेषां कथं मिथः सादृश्यमिति विचारणीयम् ॥
इयं च मालारूपेणापि दृश्यते । यथा'किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष य
कि वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः । किं त्वङ्गीकृतमुत्सजन्कृपणवच्छ्राध्यो जनो लज्जते
__ नियूंहप्रतिपन्नवस्तुषु सतामेकं हि गोत्रव्रतम् ॥ ___ अत्र हि चतुर्थपाद उपमेयार्थः। अभ्युपेतभारदुःसहत्वं तदपरित्यागश्च पूर्वार्धे उभयत्राप्युपात्तम् । एवं च यथा शेषादयो दुर्वहमपि कार्यमशक्त्या न त्यजन्ति तथा महाजना अपीति फलितार्थः ॥
इति प्रतिवस्तूपमा ।
दृष्टान्तं निरूपयति
साधारणस्य साम्यप्रतियोग्यनुयोगिनोर्यत्र । निर्देशः स्याद्विम्बप्रतिबिम्बतया स दृष्टान्तः ॥२॥ बिम्बप्रतिबिम्बभावेनैव यत्र साधारणधर्मस्योपमानोपमेयदिश्युपादानम् , न त्वेकत्वं स दृष्टान्तः । प्रतिवस्तूपमायां त्वेकस्यैव वारद्वयं प्रयोगान्नातिव्याप्तिः । दृष्टो ज्ञातप्रामाण्यकः अन्तो दार्टान्तिकवाक्यार्थनिश्चयो यत्रेति व्युत्पत्त्या प्रकृतवाक्यार्थप्रतिपाद्यकार्यकारणभावे ग्राह्ये तब्राहकीभूतान्वयव्यतिरेकयोर्यो यदन्वयव्यतिरेकानुविधायी स तज्जन्य इत्यादिव्याप्तौ य