________________
अलंकारकौस्तुमः । रसगङ्गाधरकृतस्तु–नेदं वैधोदाहरणं युक्तम् । प्रस्तुतर्मिविशेषगतत्वेनोक्तस्यार्थस्य दााय खाक्षिप्तखव्यतिरेकसमानजातीयधर्म्यन्तरनिष्ठाप्रकृतार्थकथनस्यैव वैधोदाहरणरूपत्वात् । यथा 'गीर्भिर्गुरूणाम्-' इत्यत्र नरगतत्वेनोक्तार्थदााय तदाक्षिप्तस्य गुरुविनीतत्वव्यतिरेकप्रयुक्तमहत्त्वव्यतिरेकस्य सजातीयो मणिनिष्ठशाणोत्कषणव्यतिरेकप्रयुक्तनृपमौलिवासव्यतिरेक उक्तः । साजात्यं च व्यतिरेकान्तरप्रयुक्तत्वादिधर्मेण यथासंभवं बोध्यम् । प्रकृतोदाहरणे तु 'यदि गुणाः सन्ति तदा खयमेव प्रकाशन्ते' इति प्रस्तुतोऽर्थः । तस्य च व्यतिरेकः-'असन्तस्तूपायान्तरेणापि न प्रकाशन्ते' इति । उत्तरार्धे चैतत्सजातीयोऽर्थो न निबद्धः, किं तु स्वयमेव प्रकाशन्ते न परेणेति प्रस्तुतार्थसजातीय एव । शपथेन न विभाव्यते किं तु स्वयमेवेति प्रकृतार्थानुकूलतयैव पर्यवसानात् । वैधर्म्यस्य प्रकृतानुरूपत्वस्य व्याघातादनुपपत्तेः । तस्मात्साधम्र्येणैवेदमुदाहरणं युक्तम् । न चोपायान्तरेण न प्रकाशन्ते इत्यस्याक्षेपलभ्यत्वेन तदघटितस्य प्रस्तुतवाक्यार्थस्योपायान्तरव्यावृत्तिघटितोत्तरवाक्यार्थेन कथं साधोपपत्तिरिति वाच्यम्। एवकारस्य स्वयमित्येतदुत्तरं घटनेनोपायान्तरव्यावृत्तेरपि पूर्ववाक्यार्थघटकत्वात् । विकसन्त्येवेति क्रियासंगत्यङ्गीकारे विकासात्यन्तायोगव्यवच्छेदप्रतीतेरेवापत्त्या तस्याश्चोत्तरवाक्यार्थाननुगृहीतत्वेन तत्परित्यागस्यावश्यकत्वात् । उत्तरार्धे उपायान्तरव्यावृत्तेरेवोत्त्या पूर्वार्धेऽप्यन्ययोगव्यवच्छेदस्याश्रयितुमुचितत्वादित्याहुः ॥
इयं चालंकारान्तरविषयेऽपि दृश्यते । अप्रस्तुतप्रशंसाविषये यथा'इन्दुर्लिप्त इवाञ्जनेन जडिमा दृष्टिर्मगीणामिव
प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । १. अस्यापि वैधम्र्योदाहरणपरता यथा युक्ता तथा रसगङ्गाधरमर्मप्रकाशे नागेशभ. टैाख्यातम्. तत्सारस्त्वयम्-'आक्षेपलभ्येनापि' व्यतिरेकेण 'तत्त्वं किमपि काव्यानां जानाति विरलो भुवि।मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥' इत्यत्र वैधयॊदाहहरणत्वाङ्गीकारेणैतत्खण्डनं प्रतारणमात्रम्. २. 'अलंकारविषये' ख.