________________
२८६
काव्यमाला। 'गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥' अत्र शाब्देन दृष्टान्तेन तद्गतः सामान्यधर्मावच्छिन्नव्यतिरेकसहचार आक्षिप्यते । तेन च सामान्यधर्मावच्छिन्नान्वयसिद्धिद्वारा विशेषावच्छिन्नान्वयनियमसिद्धिः । तथा हि-शाणोत्कषणाभावनृपमौलिवासाभावयोः शब्दात्प्रतीतावपि तेन पूर्वार्धसमर्थनं संभवतीत्यतः संस्काराभावोत्कर्षाभावयोः सहचाराक्षेपः । तेन च खविपर्ययतया संस्कारोत्कर्षयोरन्वयसहचारेण नियमसिद्धौ गुरुविनीतत्वरूपसंस्कारविशेषभाजां महत्त्वप्राप्तिनियमः सिध्यति । एवमन्वयगर्भायामपि प्रतिवस्तूपमायां नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वयदृष्टान्तेन सामान्यान्वयनियमसिद्धिद्वारा प्रकृतनियमविशेषसिद्धिः । यत्र तु नियमविशेषरहितः केवलार्थः प्रकृतः तत्र त्वप्रकृतवाक्यार्थनिरूपितसादृश्यमात्रस्य प्रतीतिः, न तु नियमस्यापि अप्रयोजकत्वात् ।
यथा
___ 'भैरैभ्रे भासते चन्द्रो भुवि भाति भवान्बुधैः ।' इत्यादावावृत्तिदीपके इति ततो भेदः-इत्युक्तम् । सादृश्यपर्यवसानं चात्र यद्यपि विधिनिषेधयोर्न संभवति, तथापि निषेधविपर्ययस्य सादृश्यं बोध्यम् । न च विपर्ययस्य वाक्यार्थत्वाभावात्कथं वाक्यार्थयोरौपम्यमिति वाच्यम् । वाक्यवेद्यतामात्रस्यैव तदर्थताया विवक्षितत्वादित्युक्तम् । अर्थावृत्तिः प्रस्तुतानामप्रस्तुतानां वा । इयं प्रस्तुताप्रस्तुतानामिति विशेषः ।
किंच । आवृत्तिदीपकं वैधम्र्येण न भवति । इयं तु वैधम्र्येणापि दृश्यते ।
यथा_ 'यदि सन्ति गुणाः पुंसां विकसन्त्येव ते खयम् ।
न हि कस्तूरिकामोदः शपथेन विभाव्यते ॥ इत्यादाविति दीक्षिताः।
१. 'यां नितरां महत्त्वम्' इत्यादर्श पाठः. २. 'विशेष'पदं ख-पुस्तके नास्ति. ३. भैर्मक्षत्रैरभ्र आकाशे इत्यर्थः.