________________
अलंकारकौस्तुभः ।
२८९ राजगतस्तु शब्दानुपात्तत्वात्प्रौढोक्तेरेव विषय इति रसगङ्गाधरकारैरुक्तम् । तंदपि व्यङ्गयसमालंकारेणैवोपपत्तेरुपेक्ष्यम् ।
अत्र नवीनाः-उपमानोपमेयस्य निगीर्याध्यवसानमेवातिशयोक्तिः । प्रकारान्तरे त्वतिरिक्तालंकारान्तरकल्पनमेवोचितम् । न ह्येतच्चतुष्टयसाधारणातिशयोक्तिलक्षणं संभवति । येनैकधर्मावच्छिन्नत्वेनैकालंकारत्वं स्यात् । न चैतदन्यतमत्वमेव सर्वानुगतमस्तीति वाच्यम् । विच्छित्तिवैलक्षण्यसत्त्वेऽन्यतमत्वस्याप्रयोजकत्वात् । अन्यथा उपमानरूपकादिकतिपयान्यतमत्वं सकलान्यतमत्वं वातिशयोक्तिलक्षणं विधाय उपमादीनामप्येतद्भेदत्वापत्तेः । न चातिरिक्तालंकारकल्पने गौरवमिति वाच्यम् । प्रधानोत्कर्षकत्वरूपस्यालंकारत्वस्य त्वयाप्यङ्गीकारात् । पदार्थान्तरस्य च मयाप्यकल्पनात् । अलंकारविभाजकोपाधिपरिगणनस्य च पौरुषेयत्वादित्याहुः ॥
इत्यतिशयोक्तिः । प्रतिवस्तूपमां निरूपयति
सादृश्यपर्यवसिते यस्मिन्वाक्यद्वये धर्मः ।
एकोऽपि द्विरुपात्तस्तां प्रतिवस्तूपमामाहुः ॥१॥ अन्योन्यमेकवाक्यतालाभार्थमुपमानोपमेयभावपर्यवसन्नयोर्यत्र गुणक्रियादिरूप एक एव धर्मः प्रतिवाक्यं शब्दान्तरेण निर्दिश्यते सा प्रतिवस्तूपमा । प्रतिवस्तु उपमानोपमेयोभयदिशि उपमा तत्प्रयोजकसाधारणधर्मोऽस्यामिति व्युत्पत्तेरित्यर्थः । अर्थान्तरन्यासवारणाय सादृश्येति । तत्र तु समर्थ्यसमर्थकभावमात्रं विवक्षितम्, न तु सादृश्यम् । बिम्बप्रतिबिम्बमावेन दृष्टान्तेऽपि धर्मोपादानात् तत्रातिव्याप्तिवारणाय एक इति । तत्र भिन्नस्यैवोपादानान्न दोषः । यथा
'त्वयि वीर परं विराजते दमयन्ती किलकिञ्चितं किल ।
तरुणीस्तन एव शोभते मणिहारावलिरामणीयकम् ॥' अत्र मणिहारो यथा तरुणीकुच एव भाति तथा भैमीविलासस्त्वय्येवेति पर्यवसानम् । इयमेव वैधयेण यथा रसगङ्गाधरे