SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ૨૮ L काव्यमाला । निदर्शनामिथ्याध्यवसित्योः संकर इति वाच्यम् । मिथ्याध्यवसितौ माना भावात् । अन्यथा 'हरिश्चन्द्रेण संतप्ताः प्रगीता धर्मसूनुना । खेलन्ति निगमोत्सङ्गे मातर्गङ्गे नमोऽस्तु ते ॥' इति सत्याध्यवसितेरप्यलंकारान्तरत्वापत्तेरित्याहुः ॥ - यत्तु — असंबन्धे संबन्धरूपातिशयोक्तितः किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनाविच्छित्तिविशेषेण मिथ्याध्यवसितेर्भिन्नत्वमिति, तदसत् । यद्यर्थोक्तिरूपातिशयोक्तेर्विशेषस्य दुर्वचत्वात् । 'राकायामकलङ्कं चेत्' इत्यादावपि तन्मुखस्यान्यसदृशताया मिथ्याभूतायाः सिद्ध्यर्थं मिथ्याभूताया राकाचन्द्रिकायाः कलङ्कतायाः कल्पनाविशेषादिति दिक् ॥ यच्च - 'प्रौढोक्तिरुत्कर्षातौ तद्धेतुत्वकल्पने । कचाः कलिन्दजातीरतमालस्तोममेचकाः ॥' अत्र यमुनाप्ररूढत्वस्य तमालानां श्यामताहेतुत्वं नास्ति । निमित्तका - रणगुणानां कार्यगुणाजनकत्वात् । तथापि श्यामलतातिशयकथनात्प्रौढोक्तिरलंकारकारान्तरमिति, तदपि न । तत्रापि यदि यमुनातीरप्ररोहणेन तमालानां नीलत्वातिशयः स्यात्, तदा केशानां श्यामतोपमा स्यादित्यत्रैव तात्पर्यात् ॥ यदपि यत्र धर्मिविशेषसंसर्गाद्धर्म्यन्तरगतधर्मातिशयो व्यञ्जनाव्यापारगम्यस्तत्र प्रौढोक्तिः । यदपि वाच्यवृत्त्यैव तत्प्रयुक्तत्वावगमस्तत्रैव समालंकार एव । यथा — ' त्वत्तो जन्म सुधांशुशेखर तनुज्योत्स्ना निमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः सार्धं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥' अत्र यशसो धवलिमातिशयस्तत्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथितः । अंशुकृतश्चन्द्रे तत्कृतो भगवति तत्कृतो राजनीत्येवमुत्तरोत्तरम् । उपचीयमानो
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy