________________
अलंकारकौस्तुभः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकोलाहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥'
२८३
इत्यादौ संबन्धेऽसंबन्धरूपमतिशयोक्तिभेदान्तरं यग्रन्थान्तरेषूक्तम्, तदपि न । 'सा मासामण्णे' इत्यादाविव 'प्रस्तुतस्य यदन्यत्वम् -' इत्यत्रैव तत्संग्रहादित्याहुः । तस्माद्यथाकथंचिदभेदेऽपि भेदोक्तिरत्रैवान्तर्भाव्येति सिद्धम् ।
एवम् —
'एकस्य बहुधोल्लेखेऽप्यसौ विषयभेदतः । गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने |
इत्यत्र 'ग्रहीतृभेदाभावेऽप्येकेनैव ज्ञात्रा एकस्य बहुधात्मनाम्युल्लेखः ' इति यद्दीक्षितमतम्, तदपि भेदेऽप्यभेदरूपप्रथमातिशयोक्तावेव तदन्तर्भा - वादुपेक्ष्यम् ॥
तृतीयभेदेऽपि कथंचिदसंभावितार्थकल्पनप्रतिपत्तिरेव विवक्षिता ॥
यथा
'अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्रव्याः किलाकीर्तयः । गीयन्ते खरमष्टमं कलयता जातेन वन्ध्योदरामूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि || अत्र यद्येवं स्यात्तदास्याकीर्तिः स्यादिति तात्पर्यपर्यवसानम् ॥ एतेन -
'संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये । यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥ किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्स्वस्रजं वहन् ॥'
इति संभावनमिथ्याध्यवसित्योः पृथगलंकारत्वमपास्तम् ॥ रसगङ्गाधरकृतस्तु —— वेश्यामित्यादेर्निदर्शनायामेवान्तर्भावः । न चात्र