________________
अलंकारकौस्तुभः ।
तुल्ययोगितां निरूपयति —
प्रकृतानां तादृक्त्वे भिन्नानां वापि तुल्ययोगित्वे ।
वाशब्दो व्यवस्थितविकल्पार्थः । तथा च प्रकृतानामेव अप्रकृतानामेव वा यत्रैकधर्मान्वयित्वं सा तुल्ययोगिता । तुल्यानां प्राकरणिकाप्राकरणिकान्यतरमात्रनिबन्धनसादृश्यवतां योगिता एकधर्मान्वयित्वं यत्रेति व्युत्पतेरित्यर्थः । बहुत्वं च द्वयोरप्युपलक्षणम् ।
आद्यं यथा—
२९९
'शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथु कुचकुम्भसङ्गिवासः । वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥' अत्र जलक्रीडासाधकत्वेन प्रकृतानामाकल्पेति धर्मान्वयः ।
यथा वा
'पेउरजुआणो गामो महुमासो योवणं पई ठेरो । जिण्णसुरा साहीणा असई मा होउ किं मरउ ||'
---
अत्र सतीत्वत्यागहेतुत्वेन प्रकृतानां प्रचुरतरुणग्रामादीनामस्तीति - यान्वयः । ' अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' इति वार्तिकात् । अस्तिक्रियाप्रयोगाभावेऽपि तदाक्षेपिता शीघ्रोपस्थितिकत्वात् । न च प्रतिवाक्यमस्त्यध्याहार इति वाच्यम् । लाघवादेकस्यैवाध्याहारं कृत्वान्यत्र तदनुषङ्गस्य न्याय्यत्वात् ।
यथा
'अं अच्छी ठिअं फरिसो अङ्गेसु जम्पिअं कण्णे । हिअअं हिअए णिहिअं विओइअं किं त्थ देव्वेण ॥
१. 'धर्मेणान्वयः' ख.
२. ' प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः ।
जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम् ॥ [ गाथा० २।९७]
३. ‘रूपमक्ष्णोः स्थितं स्पर्शोऽङ्गेषु जल्पितं कर्णे ।
हृदयं हृदये निहितं वियोजितं किमत्र दैवेन ।' [ गाथा ० २।३२ ]