________________
अलंकारकौस्तुभः ।
२७७ च सर्वथैवाप्रस्तुते प्रस्तुतेऽपि मुख्यतात्पर्याविषयीभूते च समानमेव । अतो भृङ्गादेस्तत्र सत्तामात्रेण प्रकृतत्वेऽपि मुख्यतात्पर्यस्य नायिकाद्युपालम्भ एव सत्त्वादप्रस्तुतेन प्रस्तुतप्रतीतिरिति तल्लक्षणाक्रान्तत्वं स्पष्टमेवेत्याहुः ॥
.इत्यप्रस्तुतप्रशंसा। अतिशयोक्तिं निरूपयति
अप्रकृतेन निगीणे साध्यवसानाश्रयात्मकृते । प्रकृतस्यान्यत्वोक्तौ यद्येवं स्यात्तथापत्तौ ॥ १॥
स्याज्जन्यजनकपौर्वापर्यत्यागश्च सा त्वतिशयोक्तिः। यत्र साध्यवसानलक्षणया उपमेयस्योपमानरूपत्वेन विवक्षया उपमानपदमेव प्रयुज्यते सा प्रथमा । __ यथा 'चन्द्रोऽयम्' इत्यादौ अध्यवसानमारोपविषयस्य आरोप्यमाणेन तादात्म्यविवक्षा । निगीणे विशिष्य तद्वाचकपदेनानुपात्ते इत्यर्थः । तत्र मुखादिपदाप्रयोगान्मुखत्वादिवैधानुपस्थित्या अनाहार्याभेदबुद्धिः । रूपके तु मुखादिपदस्यापि प्रयोगात् आहार्यैवाभेदप्रतीतिरित्युक्तम् । एवं च मुखादीनां चन्द्राभिन्नत्वेनोपस्थितौ रूपकम्, चन्द्रत्वेनोपस्थितौ त्वतिशयोक्तिरिति निष्कर्षः । उपमेयतावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताभेदसंसर्गकोपमानतावच्छेदकधर्मावच्छिन्नप्रकारताशालिबोधत्वं सारोपलक्षणायाः, उपमेयतावच्छेदकधर्मावच्छिन्नोपमेयनिष्ठविशेष्यताकोपमानतावच्छेदकधर्मावच्छिन्नप्रकारताशालिबोधत्वं च साध्यवसानलक्षणायाः कार्यतावच्छेदकमिति रहस्यम् । यथा
'लतामूले लीनो हरिणपरिहीनो हिमकरः . स्फुरत्ताराकारा पतति जलधारा कुवलयात् । धुनीते बन्धुकं तिलकुसुमजन्मा हि पवनो
बहिरे पुण्यं परिणमति कस्यापि कृतिनः ॥' अत्र मुखनयनाधरनासिकारूपाणामुपमेयानां चन्द्रकुवलयबन्धूकतिलकुसुमरूपैरुपमानवाचकपदैस्तिरस्कारः ॥