________________
२७८
काव्यमाला।
यथा'विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥' अत्राग्निमित्रोक्तौ मालविकायां जीवितत्वारोपः। अतिप्रियत्वरूपसादृश्यसंबन्धात् । इमामेव रूपकातिशयोक्तिरिति व्यपदिदेश चन्द्रालोकः
'रूपकातिशयोक्तिश्चेद्रप्यं रूपकमध्यगम् । ___ पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ॥' रूप्यमारोपाधिकरणं मुखादि । रूपकमध्यगं खवाचकपदमपहाय आरोप्यमाणार्थकपदेनैवोपस्थापितमित्यर्थः ।
यत्र धर्म्यन्तरवृत्तिधर्मसजातीयोऽपि धर्मस्तद्वृत्तिधर्मानवच्छिन्नतयोच्यते सा द्वितीया ।
यथा- 'अण्णं लडहत्तण अण्णं चिअ कावि वत्तणच्छाआ ।
सामा सामण्णपआवइणो रेह चिअ ण होइ ।' अत्र प्रकृतनायिकावृत्तिलावण्यादिकं नायिकान्तरवृत्तिलावण्यादिकजातीयमपि तद्विजातीये तयोक्तमिति तदुत्कर्षप्रतीतिः । कचित्तस्यैवावस्थाविशेषेण तस्मात् भेदः । यथा
'तो चिरविओअतणुओ सइ वाहोमट्ठमउअजीआघाओ। .. जाओ अण्णो च्चिअ से विलइअधणुमेत्तवावडो वामभुओ ॥'
अत्र समुद्रभेदनार्थ धनुषि गृहीते श्रीरामभुजस्य तत्पूर्वावस्था तस्मादेवान्यत्त्वोक्त्यातिचण्डत्वप्रतीतिः ॥ १. 'अन्यत्सौकुमार्य अन्यैव च कापि वर्तनच्छाया।
श्यामा सामान्यप्रजापतेः रेखैव न भवति ॥' [इति च्छाया ।] २. 'ततश्विरवियोगतनुकः सदा बाष्पावमृष्टमृदुकजीवाघातः।
जातोऽन्य एवास्य विगलितधनुर्मात्रव्यापृतो वामभुजः॥ [इति सेतु० ५।२१]