________________
२७६
काव्यमाला।
मुग्धामजातरजसं कलिकामकाले
व्यर्थ कदर्थयसि किं नवमालिकायाः ॥' प्रौढाङ्गनासत्त्वेऽपि बालां क्लेशयति कामिनीप्रकृतभृङ्गोपालम्भेन तत्प्रतीतिः ॥ . यथा वा'कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे
चेलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥' अत्रेयमिति दीर्घिकेत्यादि चोक्त्या वाच्यार्थस्य प्रस्तुतत्वनिर्णयः । नायकदन्तव्रणाङ्किताधरविशिष्टनायिकारूपप्रकृतव्यङ्गयार्थप्रकाशनं च चतुर्थचरण एव स्पष्टम् । आद्योदाहरणद्वयेऽन्यायदेशध्वनित्वं प्राचीनैरुक्तम् । अप्रस्तुतप्रशंसायामप्रस्तुतत्वेन वाच्यार्थस्यावर्णनीयतया तत्राभिधायां विरहितायां वाच्यार्थेनाक्षेपात् प्रस्तुतार्थव्यक्तिरलंकारः सः । इह तु वाच्यार्थस्यापि प्रस्तुतत्वेन तत्रैव पर्यवसानसंभवेऽपि वस्तुसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति । वस्तुतोऽत्राप्यत्रालंकारध्वनित्वमेव । तृतीयस्यानलंकारत्वे तु न कस्यचिद्वादः । व्यङ्गचार्थस्य चतुर्थचरणेन वाच्यत्वमापादितस्य ध्वनित्वायोगात् ।
'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः ।
यत्राविःक्रियते खोक्त्या सैवान्यालंकृति_नेः ॥' इति ध्वनिकारोक्तेरिति ॥
तत्र रसगङ्गाधरकृतः-अत्राप्यप्रस्तुतप्रशंसैव भवतीति नालंकारान्तरकल्पनम् । किंचिदुक्तिवैचित्र्येण तत्कल्पनेऽलंकारानन्त्यप्रसङ्गात् । न च तल्लक्षणानाक्रान्तत्वात्कथमेतदिति वाच्यम् । न ह्यप्रस्तुतत्वं सर्वथा प्रस्ता. । वराहित्यं विवक्षितम्, किं तु मुख्यतात्पर्यविषयीभूतार्थातिरिक्तत्वम् । इदं
१. 'भ्रमरः सदैव' ख.