________________
अलंकारकौस्तुभः ।
२७१
दिव्यधान्यतादात्म्याध्यवसायदशायामप्रकृतसंबन्धसत्त्वात् । एवं द्वितीयदोषस्याप्यनवकाशः। तथा हि । तत्र किमुभयोरेकत्रदर्शनेन प्रत्येकं तत्प्रयोजकत्वानुपपत्तिरिति विवक्षितम्, उत कारणकारणस्य कार्यकार्यस्य च निर्देशात् कार्यत्वकारणत्वाभाव इति । नाद्यः । कचित्प्रत्येकपुरस्कारेण तद्दर्शनादुभयोः प्रत्येकप्रयोजकत्वे स्थिते कचिदुभयसमावेशस्यादोषत्वात् न्यूनत्वानापादकत्वाच्च । तत्राप्येकस्यामेवाप्रस्तुतप्रशंसायां द्वयोः संबन्धयोरप्रयोजकत्वाच्च संबन्धनिबन्धनयोर्द्वयोरप्रस्तुतप्रशंसयोरेकत्र निबन्धमात्रेण तदातिरेक्याभावाच्च । न द्वितीयः । कार्यकारणपदयोः प्रयोज्यप्रयोजकसाधारणताया विवक्षितत्वात् । एवं च मालवीरोदनकारणीभूततत्प्रियमरणकारणकुन्तलेशकारणमात्रोक्तौ तत्प्रस्थानकार्यविजयकार्यप्रश्नादिमात्रोक्तौ च तस्यानपायादिति कृतं बहुना ॥ यदप्युक्तम्
'प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्करः।।
किं भृङ्ग सत्यां मालत्यां केतकीकण्टकेच्छया ॥' अत्र वाच्यव्यङ्ग्यवृत्तान्तयोद्वयोरपि प्रकृतत्वेन समाप्तोक्त्यप्रस्तुतप्रशंसाभ्यामतिरिक्तत्वस्य स्फुटत्वात् । प्रस्तुतनिष्ठव्यञ्जकतानिरूपितव्यङ्गचता. शाल्यप्रस्तुतकत्वेऽप्रस्तुतनिष्ठव्यञ्जकतानिरूपितव्यङ्गयताशालिप्रस्तुतकत्वे च तदुभयोपगमात् । अत्र हि प्रियेण सह विहरन्त्या उक्तौ भृङ्गोऽपि प्रकृत एव । न च भृङ्गसंबोधनानुपपत्त्या प्रियमात्राभिप्रायेणैवेयमुक्तिरिति वाच्यम् । अचेतनेऽप्यामन्त्रणदर्शनेन तदविरोधात् । एवं च प्रस्तुतेन वाच्येन भृङ्गोपालम्भेन पत्न्याः कुलवध्वाः सौन्दर्यादिगुणशालिन्याः सत्त्वे क्रूरजनपरिवृतायां सर्वखापहरणसंकल्पदुरासदायां कण्टकाकुलकेतकीकल्पायां वेश्यायां समागमेन किमित्युपालम्भो द्योत्यते । यथा वा
'अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु । १. 'सत्वे' इति पदं ख-पुस्तके त्रुटितम्.