________________
२७४
काव्यमाला।
चात्र स्मितकडंगरयोः कार्यत्वादिः कश्चिदुक्तः संबन्धोऽस्ति । अतोऽत्र सहोत्पत्त्यादिकमेव संबन्धतयाश्रयणीयम् । ___ एवं कार्यकारणयोः प्रत्येकमेव प्रस्तुतार्थप्रत्यायकत्वमभिसंधाय द्वे अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्यत्रापि दृश्यते ।
यथा'कालिन्दि ब्रूहि, कुम्भोद्भव, जलधिरहं नाम गृह्णासि कस्मा
च्छत्रोर्मे, नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः । मालिन्यं तर्हि कस्मादनुभवसि, मिलत्कज्जलैर्मालवीनां
नेत्राम्भोभिः, किमासां समजनि, कुपितः कुन्तलक्षोणिपालः ॥' अत्र किमासां समजनीति मालवीनां रोदननिमित्ते पृष्टे तत्प्रियमरणरूपनिमित्तमनाख्याय कुपितः क्षोणिपालः इति तत्कारणमभिहितमिति कारणनिबन्धना । अत्रैव मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण 'किं ते निजिताः' इति प्रश्ने तद्वधान्त विनर्मदाप्रश्नोत्तररूपं कार्यमभिहितमित्यत्रैव कार्यनिबन्धनापि। पूर्वस्यां प्रश्नः शाब्दः, उत्तरस्यां त्वार्थ इति विशेष इत्याहुः। __ अत्रेदं चिन्त्यम् । स्मितकडंगरचययोः कार्यत्वादिसंबन्धाभावेऽप्यभेदाध्यवसायविषयीभूतदिव्यधान्येन सह कडंकरचयस्यावयवावयविभावस्य सत्त्वेन कार्यत्वसंबन्धोऽस्त्येव । न च यद्रूपावच्छिन्ने प्रस्तुते अप्रस्तुतव्यङ्गयोऽर्थः प्रतीयते तद्रूपावच्छिन्ने प्रकृते अप्रकृतस्य कार्यत्वादिसंबन्धोउपेक्षितः । अत्र च स्मितत्वावच्छिन्ने एव स्थिते सारत्वरूपोत्कर्षः प्रतीयते, न तु दिव्यधान्यतादात्म्यावच्छिन्ने । अतो दिव्यधान्यकडंकरयोरुक्तसंबन्धसत्त्वेऽपि स्मितकडंकरयोस्तदभावात् संबन्धान्तरानुसरणमावश्यकमेवेति वाच्यम् । अप्रस्तुतव्यङ्गयार्थप्रकारकज्ञानविशेष्यभूते प्रकृते अप्रकृतमात्रसंबन्धस्यैव लाघवेन विवक्षितत्वात् । व्यङ्गयार्थबोधधर्मितावच्छेदकीभूतधर्मावच्छिन्नत्वनिवेशे गौरवात् । विशेष्यत्वं च तत्त्वेन विवक्षितत्वमात्रम् । अतः स्मितस्यैव तादृशज्ञानविशेष्यतया तत्राप्रकृतसंबन्धो नास्तीत्याकारकदोषाभावः । तद्विशेष्यत्वेन विवक्षितस्य स्मितस्य