________________
२७०
काव्यमाला।
सादृश्यमानं च । यद्यपि द्वयोरेव प्रकृतत्वे द्वयोरेवाप्रकृतत्वे वा श्लेषोन्मेषः, प्रकृतेऽप्रकृतव्यवहारारोपे च समासोक्तेरुच्छा(ल्ला)सः, तथापि तदाभासत्वात्तथोक्तमित्याहुः ॥ __ एतेन–'तादृशस्थले श्लिष्टविशेषेणाप्यप्रस्तुतप्रशंसा, न तु समासोतेस्तदनुग्राहकत्वम्, तस्या एतदलंकारविरुद्धत्वेनानुग्राहकत्वायोगात् ॥ यत्तु काव्यप्रकाशे 'समासोक्तेरनुग्राहकत्वम्' इत्युक्तम्, तन्न । प्रतीयमानवृत्तान्तस्य प्रस्तुतत्वेऽनुग्राहिकायाः समासोक्तेरेवाभावात् । प्रस्तुतस्य वाच्यतायामेव तदभ्युपगमात् । अप्रस्तुतत्वे त्वनुग्राह्याया अप्रस्तुतप्रशंसाया एवाभावात् । अप्रस्तुतवृत्तान्तस्य वाच्यतायामेव तदभ्युपगमात् इति दूषणम् । 'श्लिष्टविशेषणाक्षिप्तद्वितीयार्थमात्रं समासोक्तिः' इत्यभिप्रायेण कथंचित्समाधेयमिति योजनं च रसगङ्गाधरीयमपास्तम् । तत्र श्लेषो द्वेधाधर्ममात्रे धर्मधर्मिणोद्वयोश्चेति भेदात् । तत्र धर्ममात्रश्लेषे यथा मम'मित्रस्यावह पक्षपातघटना सेवस्व दुर्ग जलं
पत्राणां च सहस्रमाश्रय कुरु त्वं कण्टकानां वृतिम् । विष्वग्वायुचरानुदीरय विधे ह्येवंविधयानली
न्यक्कारस्तु सरोज दुष्पतिकरः कान्ताकटाक्षाहितः ॥' अत्र विशेष्यवाचि सरोजपदं न श्लिष्टम् । विशेषणविशेष्योभयश्लेषे यथा'रेसिअ विअट्ठ विलासिअ समअण्णअ सच्चअं असोओ सि ।
वरजुअइचलणकमलाहओ वि जं विअससि सतहम् ॥' अत्र हि तत्सदृशः कामशास्त्राभिज्ञो युवा प्रतीयते । न चात्र श्लेष एवोभयार्थबोधक इति वाच्यम् । अशोकपदस्य वृक्षे रूढत्वेन प्रथममेव तत्प्रतीतेः । तदुक्तम्- 'अवयवशक्तेः समुदायशक्तिर्बलीयसी' इति । न १. 'दितः' ख. २. 'रसिक विदग्ध विलासिन्समयज्ञ सत्यमशोकोऽसि ।
वरयुवतिचरणकमलाहतोऽपि यद्विकससि सतृष्णम् ॥' [इति गाथा० ५।५]