________________
अलंकारकौस्तुभः।
२७१ च प्रकरणादिसत्त्वे योगार्थ एव बलवान् । यथा-'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्ष्या वाजिभ्यो वाजिनम्' इत्यत्र वाजिपदस्याश्वे रूढावपि 'वाजमन्नमस्त्येषाम्' इति व्युत्पत्त्या आमिक्षारूपान्नयोगिनां विश्वेषां देवानामेवोपस्थितिरिति वाच्यम् । प्रकरणादिकालीनयोगशक्तिजन्यबोधस्य समुदायशक्तिजन्यबोधप्रतिबन्धकतया अशोकपदाच्छोकाभाववत्पुरुषबोधकाले वृक्षत्वप्रकारकबोधविरहेण श्लेषविरहः । इयांस्तु विशेषः । यत्पुरुषपरत्वज्ञानाभावकाले वृक्षत्वप्रकारकबोधस्यैवोत्पत्त्या तत्राप्रस्तुतप्रशंसात्वं निर्बाधम् । तत्सत्त्वेऽपि पुरुषस्यैव प्रकृतत्वेन ज्ञानविरहे ततो वृक्षत्वप्रकारकज्ञानोत्पत्त्या तदेव निराबाधम् । अत्रैव पुरुषस्य प्रकृतत्वज्ञाने तु समासोक्तिरेवेति ॥ समासोक्त्या यथा'येनानन्दमये वसन्तसमये सौरभ्यहेलावल.
मृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः । आः कालस्य वशेन कोकिलयुवा सोऽप्यद्य सर्वा दिशः
खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्धावति ॥' अत्र कस्यचित्स्वामिनः प्रसादेन सुखातिवाहितदिनस्य पश्चादुर्जनैः पीड्यमानस्य सत्पुरुषस्य प्रतीतिः ॥ यथा वा'नाभ्यासो नभसि क्रमे कररुहेर्न क्रौर्यमालम्बितं
जङ्घालत्वमभून्न भूधरगुहापर्यन्तभूलङ्घने । पातुः स्तन्यमनादराद्वलितया दृष्ट्यैव सिंहीशिशो
र्दोग्दानद्रवनिम्नगाः करटिनां गण्डेषु गण्डूषिताः ॥ यथा वा मम'तत्तद्दोहदबद्धसौहृदभरास्ते ते महानोकहा
बंहीयांस इहासते कुरबक त्वामेकमेव त्वहम् । तारुण्यान्धपुरन्ध्रिपीवरकुचाप्रत्यूहनिष्पीडना
साकाझं कलयाम्यशेषरसिकश्रेणीशिरःशेखरम् ॥'