________________
अलंकारकौस्तुभः ।
‘तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमार्छु मया साश्लिष्टा रभसेन तत्सुखवशात्तस्याश्च तद्विस्मृतम् ॥'
अत्र किं त्वयि तया मानो मुक्त इति कार्यमात्रं पृच्छन्तं सखायं प्रति नायकेन मानत्यागकारणमुपन्यस्तम् ।
कारणे प्रस्तुते कार्याभिधानं यथा
-
"तं से गुणम्मि जाअं कलम्बगन्धेण जं गआ मोहम् । इअरागजिअसो जीयेण विणा ण वोलन्तो ||
एतेन त्वद्विरहबाधा तस्यामतिमात्रमुज्जृम्भते इति प्रस्तुते मोहरूपं
तत्कार्यमुक्तम् ।
२६९
सामान्यप्रस्तावे विशेषवचनं यथा
'रेण्णाउ तणं रण्णाउ पाणिअं सव्वअं सअंगाहम् ।
तह वि मआण मई अ आमरणन्ताइँ पेम्माई ॥'
अत्र निसर्गप्रेमा उपाधिं नापेक्षते इति सामान्ये वाक्ये विशेष उदाहृतः । विशेषे प्रकृते सामान्योपन्यासो यथा
'णिद्दं लहन्ति कहिअं सुणन्ति खलिअक्खरं ण जम्पन्ति ।
――――――
――――
৬
जाहि दिट्ठो सि तुमं ताओ चिअ सुहअ सुहिअओ ॥'
अत्र यद्यहं त्वां नाद्रक्ष्यं तर्हि सुखिताभविष्यमिति विशेषे वाच्ये सामान्यमुक्तम् । तुल्येन तुल्याभिधाने त्रयः प्रकाराः । श्लेषः, समासोक्तिः,
१. ' तदस्य गुणे जातं कदम्बगन्धेन यद्गता मोहम् । (?)
इतरागर्जितशब्दो जीवेन विना न व्यतिक्रामति ॥' (?) [इति च्छाया ।] २. ‘अरण्यात्तृणमरण्यात्पानीयं सर्वतः खयंग्राहम् ।
तथापि मृगाणां मृगीणां चामरणान्तानि प्रेमाणि ॥ [ इति गाथा ० ३।८७] 'निद्रां लभन्ते कथितं शृण्वन्ति स्खलिताक्षरं न जल्पन्ति ।
याभिर्न दृष्टोऽसि त्वं ता एव सुभग सुखिताः ॥ ' [ इति गाथा ० ५।१८ ] ४. 'नाद्राक्षं' ख. ५. 'सुखी नाभवि' ख.