SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६८ काव्यमाला । व्यवहारद्वयाभेद इति वाक्यार्थनिदर्शनास्वरूपम् । तत्र च प्रतिपादनं श्रीतमेवेत्यत्र नाग्रहः, किंतु प्रतिपादनमात्रम् । एवं च प्रस्तुतार्थस्य शाब्दानुपाaise आर्थ तदादायैव निदर्शनायामेवैतदन्तर्भाव उचितः । अन्यथा लुप्तोपमादेरप्युपमाबहिर्भावापत्तेः ॥ यत्त्वतिशयोक्तिरेव रूपकसंभवाद्विलीयेतेति । तन्न । यत्र ह्यलंकारशरीरमुभयत्रापि अविलक्षणं तत्रैक एवालंकारो गण्यते । अलंकारशरीरस्य वैलक्षण्ये तु पृथगेवालंकार इति वस्तुस्थितिः । प्रकृतस्थले च प्रस्तुतवृत्तान्तस्य शाब्दार्थत्वयोरुभयत्रापि शरीरवैलक्षण्याभावादेकालंकारत्वमेव युक्तम् । रूपक्रे तु विषयतावच्छेदकरूपेणाभासमान एव विषये विषयितावच्छेदकावच्छिन्नाभेदश्चातिशयोक्तिशरीरमिति वैलक्षयेन तदुभयोः पार्थक्यव्यवस्थापनात् । आहार्यनिश्वयविषयीभूतो विषये विषय्यभेद एव रूपकम् । तत्र विषयतावच्छेदकरूपेणैवोपस्थितेर्विषयविशेषणत्वे गौरवेण तदनिवेशात् । एवं च भेदे रूपातिशयोक्त्यपह्नुत्योरपि रूपक एवान्तर्भावः इत्यत्र क्षत्यभावादिष्टापत्तिरित्यतिशयोक्तेरपि रूपकान्तर्भावस्वीकर्तॄणां मते तु ललितस्यालंकारान्तरत्वशङ्कापि न संभवतीति रसगङ्गाधरकृतः ॥ इति निदर्शना । अप्रस्तुतप्रशंसां निरूपयति अप्रस्तुतप्रशंसा प्रकृतप्रतिपत्तिरेतया यत्र । कार्ये हेतौ व्याप्यव्यापकयोरन्यगीः समेतस्य ॥ १ ॥ यत्र अप्रस्तुतार्थप्रोक्त्या प्रस्तुतार्थप्रतीतिर्जायते सा अप्रस्तुतप्रशंसा । समासोक्तौ तु प्रस्तुतेनाप्रस्तुतप्रतीतिरिति विशेषः । एतद्भेदानाह-- कार्ये इति । सप्तम्यन्तेषु प्रकृते इत्यन्वीयते । अन्यत्वं च प्रकृतनिरूपक प्रतियो गिकं ग्राह्यम् । तथा च कार्ये प्रस्तुते कारणस्य, कारणे प्रस्तुते कार्यस्य, व्याप्यव्यापकपदे सामान्यविशेषपरे । विशेषे प्रस्तुते सामान्यस्य, सामान्ये प्रस्तुते विशेषस्योक्तिरिति चत्वारो भेदाः । तुल्ये प्रकृते तुल्योक्तिरिति पञ्चमः । तत्र कार्ये प्रस्तुते कारणस्योक्तिर्यथा— >
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy