________________
२६६
काव्यमाला । कारणभावे साक्षादेवोत्तरकार्यकारणभावोऽनुकूलस्तत्र निदर्शना, यत्र तु पूर्वकार्यकारणभावग्राहक एवोत्तरकार्यकारणभावोऽनुकूलस्तत्र दृष्टान्त इति विवेकः पर्यवसन्न इत्यलमतिपल्लवितेन ॥ _ अत्र केचित्-ललितमप्यलंकारान्तरमेव । यत्र प्रकृतवाक्यार्थमनुपन्यस्य तत्प्रतिबिम्बभूतवाक्यार्थान्तरमात्रमुपन्यस्यते। यथा
'प्रस्तुते वर्णवाक्यार्थे प्रतिबिम्बस्य वर्णनम् ।
ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥' अत्र ललितमिति लक्ष्योक्तिः । पूर्वार्ध लक्षणम् । निर्गत इत्याधुदाहरणम् । इयं हि दाक्षिण्यादुपागते नायके प्रतिनिवृत्य नायिकान्तरासक्ते सति तदानयनाय प्रेषयितुकामां नायिकां प्रति सख्या उक्तिः । तत्र च प्रस्तुतवाक्यार्थमपहाय तत्सदृशनीरनिर्गमनोत्तरकालीनसेतुबन्धकारणद्वारा तत्प्रतिबिम्बरूपार्थ उक्तः । न हीयमप्रस्तुतप्रशंसा, प्रस्तुत. धर्मिकत्वात् । नायकानयनेच्छावत्यां नायिकायामेव तादृशसेतुकरणेच्छोक्तेः । नापि समासोक्तिः । प्रस्तुतवृत्तान्तेनाप्रस्तुतवृत्तान्तप्रतीतेरेव तद्विषयत्वात् । अत्र चाप्रकृतेन प्रकृतवृत्तान्तप्रतीतेः । नापि निदर्शना । प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरैक्यसमारोप एव तदभ्युपगमात् । यदि च शब्दोपात्तयोर्विषयविषयिणोः प्रवर्तमान एवालंकारो विषयिमात्रोपादानेऽपि प्रवर्तेत, तदातिशयोक्तेरपि रूपक एवान्तर्भावप्रसङ्गः । विषयविषयिणोः शब्दोपात्तत्वे शाब्दं रूपकं विषयिमात्रोपादाने त्वार्थमित्यपि वक्तुं शक्यत्वात् । सारूप्यनिबन्धनायामप्रस्तुतप्रशंसायामप्यतिशयोक्तेरेवापत्तेः । तत्राप्यप्रस्तुतमिवाचकपदस्य प्रस्तुतमिलक्षकत्वसंभवात् । न च तत्र सरूपादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थोऽवगम्यते । अतिशयोक्तौ तु विषयिवाचकपदैर्विषया लक्ष्यन्त इति वाच्यम् । इहापि प्रस्तुतगतत्वेन वर्ण्यमानादप्रस्तुतवाक्यार्थात्प्रस्तुतधर्मिगतप्रस्तुतवृत्तान्तप्रतीतिरिति तत्रान्तर्भावानौचित्यात् । प्रस्तुतं स्वपदेन निर्दिश्य तत्राप्रस्तुतवर्णनारूपविच्छित्तिविशेषसद्भावाच्च ।। १. ख-पुस्तके नास्त्ययं पाठः.. २. 'रूपवृत्तान्त' ख.