________________
अलंकारकौस्तुभः ।
२६५ इत्यादिवदिति चेत् । न । समर्थनीयवाक्यार्थप्रतिपाद्यकार्यकारणभावान्तर्गतकार्यतावच्छेदककारणतावच्छेदकधर्मयोः समर्थकवाक्यान्तर्गतकार्यकारणभावघटककार्यतावच्छेदककारणतावच्छेदकधर्माभिन्नत्वे निदर्शनाभेदे त्वर्थान्तरन्यास इति विवेकेनात्र तद्विषयाभावात् । इह हि पूर्ववाक्यार्थप्रतिपाद्यकार्यकारणभावे उन्नतप्रतिपाद्यत्वं कारणतावच्छेदकम्, द्वितीयेऽपि तदेव । 'निजदोष-' इत्यादौ तु पूर्वार्धप्रतिपाद्ये कार्यकारणभावे दोषत्वं कारणतावच्छेदकं विपरीतज्ञानत्वं कार्यतावच्छेदकम् । द्वितीयार्धे तु पित्तत्वं कारणतावच्छेदकं विपरीतचाक्षुषत्वं कार्यतावच्छेदकमिति भेदात् । एवं च पूर्वोत्तरवाक्यार्थकार्यकारणभावद्वये यत्र सामान्यविशेषरूपधर्मावच्छिन्नत्वं तत्रैवार्थान्तरन्यास इति फलितम्। अथास्त्वयं दृष्टान्त एव ।
'त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोर्विकसति हृदयं कुमुद्वत्याः ॥' । इतिवत् । न चात्र कार्यकारणभावद्वये कार्यतावच्छेदकैक्याभावः निर्वाणत्वविकासत्वयोर्भेदादिति वाच्यम् । तयोर्बिम्बप्रतिबिम्बभावेनैक्यसत्त्वात् । अन्यथा उक्तोदाहरणेऽप्युक्तरीत्या पतनादे देनासंगत्यापत्तेरिति चेत् । न । पूर्ववाक्यार्थप्रतिपाद्यकार्यकारणभावे उत्तरवाक्यार्थप्रतिपाद्यकार्यकारणभावे उत्तरवाक्यार्थप्रतिपाद्यकार्यकारणभावस्य यत्र ग्राहकत्वं तत्र निदर्शना । 'त्वयि दृष्ट-' इत्यादौ तु उत्तरार्धीयकार्यकारणभावो न पूर्वार्षीयकार्यकारणभावे आहत्यग्राहकः । तत्र हि एवकारेण नायिकामनोनिर्वाणस्य राजदर्शनान्वयव्यतिरेकानुविधायित्वदर्शनेन कार्यकारणभावो ग्राह्यः । तत्र यद्यदन्वयव्यतिरेकानुविधायि तत्तजन्यमिति ग्राहकव्याप्तौ आलोके हीत्यादिर्हि दृष्टान्तः । ततस्तत्परिष्कृतया यद्यदन्वयव्यतिरेकानुविधायीति व्याप्त्या मनोनिर्वाणराजदर्शनयोः कार्यकारणभावो गृह्यते । उन्नतेत्यत्र तु उत्तरार्धीयकार्यकारणभावः साक्षादेव पूर्वार्धीयकार्यकारणभावग्राहक इति भेदः । विशेषान्वयव्यतिरेकानुविधायिज्ञानस्यैव सामान्यकार्यकारणभावग्राहकत्वमिति सिद्धान्तात् । तेन च यत्र पूर्वकार्य
३४