________________
२६४
काव्यमाला
द्वितीया यथा'उन्नतं पदमवाप्य यो लघुहेंलेयैव स पतेदिति ध्रुवम् ।
शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥' अत्र लाघवे सत्युन्नतपदप्राप्तित्वं कारणतावच्छेदकम् । पतनत्वं कार्यतावच्छेदकमिति कार्यकारणभावः पूर्वार्धप्रतिपाद्यः । तत्र दृष्टान्ततयोत्तरा|पादानम् । तेन लाघवे सत्युन्नतपदप्राप्तिः पातहेतुः यथा दृषत्कणस्येति दृष्टान्तपर्यवसानान्निदर्शनात्वम् । न चात्रानुमानमेवेति वाच्यम् । पक्षादेरनिर्देशात् । न च 'अयं निश्चितपतनकः लाघवे सत्युन्नतपदप्राप्तित्वात् शैलसानुगतदृषत्खण्डवत्' इति वाच्यम् । एकत्र लघुत्वमल्पबुद्धित्वम्, हष्टान्ते त्वपकृष्टगुरुत्वयोगित्वम् । उन्नतत्वम्, उत्कृष्टत्वम्, ऊर्ध्वदेशस्थितत्वं चेति भेदात् । पक्षे पतनं पदभ्रंशो दृष्टान्ते त्वधः संयोगहेतुः क्रियेति भेदाच अथ लघुत्वोन्नतत्वपातादीनामभेदाध्यवसायेनोभयवृत्तित्वान्न दोषः । वास्तवव्याप्यभावेऽपि कविप्रतिभाकल्पितव्याप्त्यादिबलादेवानुमानालंकारप्रवृत्तेः । अन्यथा उत्तरार्धस्य पूर्वकार्यकारणभावदृष्टान्तत्वानुपपत्त्या त्वन्मतस्यापि विलयप्रसङ्गात् इति चेत् । तथाप्यत्र लघोरुन्नतपदप्राप्तेः पातं प्रति हेतु. ताया एव प्रतिपाद्यत्वेन कस्यचित्पतनयोग्यताया असाध्यत्वेनानुमानानवकाशात् । न च 'पतनं लाघवे सत्युन्नतपदप्राप्तिजन्यम्, पतनत्वात् , शैलाप्रगतदृषत्खण्डपतनवत्' इति वाच्यम् । श्लोकात् दृषत्खण्डस्यैव दृष्टान्तत्वप्रतीतेः तत्समवेतपतनस्य तदभावात् पतनस्य पक्षत्वे हेतोरसाधारण्यात् । पतनविशेषस्य पक्षत्वे च सामान्यतो निपतनस्य लाघवे सत्युन्नतपदप्राप्तिजन्यत्वस्य श्लोके गम्यमानस्यासिद्धेः । उन्नतपदप्राप्तेः पातहेतु. त्वस्यैव प्रतिपादनीयत्वेन पतनस्योन्नतपदप्राप्तिजन्यत्वसाधने तद्विरोधाच्चेति नानुमानावकाश इति सिद्धम् ॥ अथास्त्वत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।
'निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥' . १. 'मघाप' इति भवेत्. २. 'लीलयैव' ख.