SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । २६३ केन बद्ध इत्यादिरुत्तरवाक्यार्थः । न चैतेषां परस्परमन्वयबोधः संभवति, अतो यथा वर्तेर्वस्त्राञ्चलबन्धनं दुष्करं तथा राक्षसग्रहणमपीत्यादिक्रमेणोपमायां पर्यवसानम् । तथा च वह्निवस्त्राञ्चलबन्धन प्रतियोगिकसादृश्यवद्राक्षसग्रहणकर्ता मदीयजिज्ञासाविषय इत्यादिः पर्यवसितबोधाकारः । न च रूपकपर्यवसानमेव कुतो न भवति, राक्षसग्रहणरूपवह्निवस्त्राञ्चलबन्धनकर्ता क इति बोधसंभवादिति वाच्यम् । प्रकृतप्राधान्यभङ्गापत्तेः । एवमपि वह्निवस्त्राञ्चलबन्धनाभिन्नराक्षसग्रहणकर्ता क इति बोधः कुतो न स्यात् एवं प्रकृतप्राधान्यभङ्गाभावादिति चेत्, न । राक्षसग्रहणस्य प्रकृतत्वेन तत्रोपमेयस्यैव वाच्यत्वात् । रूपकापेक्षया उपमायाः प्रथमप्रतीतिकत्वाच्च । न चात्र व्यङ्गयोपमैवास्तु किमलंकारान्तरकल्पनयेति वाच्यम् । उपजीव्यत्वेन तदभ्युपगमादित्याहुः ॥ पदार्थनिदर्शना यथा'परिणीअ महाणसकम्मलग्गमसिमइलिएण हत्थेण । छित्तं मुहं हसिज्जइ चन्दावत्थं गदं पइणा ॥' । अन्यावस्थान्येन कथं प्राप्यते इत्यतो मुखचन्द्रयोरुपमापर्यवसानम् । अथ वा अवस्थासदृशावस्थायां लक्षणा । सादृश्यप्रतियोगिन्यामवस्थायां चन्द्रपदान्वयः । अतो लुप्तोपमेयमस्तु इति चेत्, न । अवस्थायामवस्थानिरूपितसादृश्याभावात् चन्द्रपदस्यैकदेशान्वयप्रसङ्गात् । खण्डशक्तिकल्पने च गौरवात् । एकपदोपस्थाप्यानां गत्यन्तरसत्वेऽन्योन्यमनन्वयाच्च । न्यायपञ्चाननादयस्तु-ईदृशस्थलेऽन्वयं प्रति प्रथमोदाहृतनिदर्शनायामुपमानमप्रसिद्धम् । वर्तेर्वस्त्रबन्धनादेरप्रसिद्धेः । इह तु प्रसिद्धमिति विशेषः । वाक्यार्थनिदर्शनायोगिपदस्य स्वविशेष्यजातीयार्थलक्षणया च. न्द्रपदस्य चन्द्रावस्थायां लक्षणा । तेन चन्द्रावस्थासदृशावस्थालाभेन लुप्तोपमैवेत्याहुः । १. 'गृहिण्या महानसकर्मलग्नमषीमलिनितेन हस्तेन । स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥' [गाथा १११३] इति च्छाया.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy