________________
२६२
काव्यमाला।
क्वचिच्च शास्त्रीये शास्त्रीयव्यवहारसमारोपः । यथा मम'कर्मण्यणावप्यनणौ प्रयाते कर्तृत्वमाध्यानविवर्जितेऽपि ।
स्पृहामहं संविदधत्परस्मै पदाय न स्यां कथमत्र हास्यः ॥' अत्र बहुन्यल्पे वा कर्मणि आध्यानानां श्रवणाद्यात्मकज्ञानानामभावेऽपि सति परस्मै मोक्षरूपाय पदाय स्पृहां कुर्वन्नित्यनेन उक्ते कर्मसत्त्वे मोक्षो भवतीति वैदिके व्यवहारे । अणौ अण्यन्तावस्थायां कर्मीभूते पदार्थे । अनणाविति नभ्समासद्वयेन ण्यन्तावस्थायां कर्तृभूते सति अनाध्याने स्मरणभिन्नार्थे आत्मनेपदविधानात्तादृशस्थले परस्मैपदं न आत्मनेपदमेव ‘णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने' इति सूत्रेण भवतीति वैयाकरणव्यवहारारोपः । एवं शास्त्रान्तरेष्वप्युदाहार्यम् ।
इति समासोक्तिः । निदर्शनां निरूपयति
उपमापर्यवसन्नो यत्रार्थोऽन्योन्यमन्वयानहः।
यच्च क्रियया कारणकार्यान्वयधीनिदर्शना सोक्ता ॥१॥ यत्र पदार्थयोर्वाक्यायोर्वा अन्योन्यमेकवाक्यतयान्वयबोधाजनकयोरुपमानोपमेयभावं कल्पयित्वैवान्वयबोधपर्यवसानं सा निदर्शना । यत्र च कार्यकारणयोः क्रियया हेतुहेतुमद्भावे प्रतिपादिते उत्तरवाक्यार्थः पूर्ववाक्यार्थप्रतिपाद्यसामान्यकार्यकारणभावे दृष्टान्ततया पर्यवस्यति . सा द्वितीया निदर्शनेत्यर्थः । आद्या यथा-मुद्राराक्षसे अमात्यराक्षसं गृहीतमालोक्य चाणक्यस्योक्तौ-- 'केनोत्तुङ्गशिखाकलापकपिलो. बद्धः पटान्ते शिखी
पाशैः केन सदागतेरगतिता सद्यः समापादिता । केनानेकपदानवासितसटः सिंहोऽर्पितः पञ्जरे
भीमः केन च नैकनक्रमकरो दोभा प्रतीर्णोऽर्णवः ॥' अत्र हि राक्षसोऽयं केनात्रासीत इति पूर्ववाक्यार्थः । वह्निर्वस्त्राञ्चले