________________
इत्यादौ,
अलंकारकौस्तुभः ।
'कपोले पत्राली करतल निरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
२६१
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधेन तु वयम् ॥' इत्यादौ च न रसाभासत्वापत्तिः । इह हि पाण्डुत्वादिषु बहुषु गण्डचुम्बनादिव्यवहारारोपात् । बहुष्वपि एकसंबन्धिना व्यवहारारोपसंभवानानौचित्यं । त्वन्मते तु तत्र नायकत्वस्यैवारोपात्पाण्डुत्यादौ प्रत्येकं नायकत्वारोपे बहुनायकसंबन्धिरतिप्रतीत्यानौचित्याद्रसाभासत्वप्रसङ्गो दुवरः स्यादिति दिक् ॥
अत्र च क्वचिल्लौकिके शास्त्रीय व्यवहारारोपः ।
यथा मम -
यथा मम -
'रूपं राजति केवलान्वयि तनौ प्राणेश्वरप्रार्थिता
श्लेषादौ व्यतिरेकि केवलमिदं सूक्तं समाकर्ण्यते । प्रोदेति व्यतिरेकि चान्वयि च ते रम्भोरु वक्षोजयो
र्मध्ये चात्र तनुत्वमङ्ग गमने लोलत्वमक्ष्णोस्तथा ॥' अत्र नायिकाया रूपे सर्वाङ्गव्यापकतायां नैयायिकप्रसिद्धाभावाप्रतियोगित्वरूपकेवलान्वयित्वव्यवहारारोपः ॥
क्वचिच्छास्त्रीये लौकिकव्यवहारारोपः ।
' मा यान (?) मव्ययसमाश्रयणाद्विभक्तिर्ज्ञात्वा निजामपि तथाविधतां विनिर्मात् । स्वच्छन्दतां दधदपर्यनुयोगयोग्य
स्तस्या हि लोपविधिमन्वशिषन्मुनीन्द्रः ॥' अत्राव्ययोत्तरविभक्तेर्लोपो भवतीति वैयाकरणव्यवहारे अनुचितहिंसारतबलवद्व्यवहारारोपः ॥