________________
२६०
काव्यमाला। स्त्रीत्वादेस्तदाक्षेपकत्वाभावात् । पुंस्त्वादेश्च नायिकात्वादिसामानाधिकरण्याभावात् ॥
यत्तु निशाशशिनो यकत्वाख्यधर्मविशिष्टयोः प्रतीतिरित्यादिग्रन्थखरसदर्शनम् । तदपि न । नायकस्य व्यवहारविशेषणतया परम्परया तद्वैशिश्वमित्यत्रैव तात्पर्यात् । व्यवहारारोपमङ्गीकृत्य नायकाद्यारोपनिरासतात्पर्यके ग्रन्थे तदभेदारोपाभिप्रायस्य शङ्कितुमशक्यत्वात् ॥ ___ यदपि चन्द्रादौ नायकाद्यनारोपवत् निशायामपि नायिकात्वाद्यारोपोऽपि न स्यादिति । तदपि न । रात्रिमुखचुम्बनव्यवहारे प्रतियोगितया नायकान्वयबोधे सति रात्रिमुखचुम्बनस्य तद्धर्मत्वाभावेन रात्रौ नायिकात्वाद्यारोपस्यावश्यकत्वात् । नहि नायिकाया व्यवहारे विशेषणत्वेनान्वयबोधः संभवति मुखचुम्बनरूपव्यवहारस्य तदसंबन्धित्वात् । नायकस्य तत्र संबन्धितयान्वयेन संबन्ध्यन्तरस्यानाकासितत्वाच्च । तदतिरिक्तव्यवहारस्य वानुपात्तत्वात् । अत उक्तरीत्यान्वयस्यैवोचितत्वात् ॥ यदप्युक्तम्--
'निर्लक्ष्मीकाभवत्प्राची प्रतीची याति भास्करे ।
प्रिये विपक्षरमणीसक्ते का मुदमञ्चति ॥ इत्यत्र भास्करादीनां प्रियत्वाद्यबोधे उत्तरार्धे प्रियत्वादिना समर्थनानुपपत्तिरिति, तदपि न । त्वन्मत एव तदोषात् । न हि 'भास्करप्रियेऽन्यरक्ते प्राची नायिकादूयत' इत्युक्ते प्रिय इत्यादिना समर्थनं संभवति । अभेदे समर्थ्यसमर्थकभावानुपपत्तेः । अस्माकं त्वप्रकृतव्यवहार क्षेपकत्वेनोत्तरार्धस्य निर्लक्ष्मीकत्वसंपादनोपयोगस्य स्पष्टत्वात् । तस्मात् समासोक्तौ व्यवहारस्यैवाभेदेन प्रकृतव्यवहारे आरोप इति स्थितम् ॥
अत एव'गण्डं चुम्बति पाण्डिमाधरमधून्यावादयत्युल्बणः
श्वासोर्मिस्तनिमा तनोति च तनोराश्लेषमणीदृशः । तापस्तावदपाकरोति वसनं भ्रातः किमावेद्यता
मेते धन्यतमास्त्वमेव विधिना वामेन निर्वासिताः ॥