________________
अलंकारकौस्तुभः ।
२९९
किं चैवं ध्वनिप्रकरणे
'अलससिरमणी धुत्ताणामग्गिमो पुत्ति धणसमिद्धिमओ । इय भणिएण णअङ्गी पफुल्लविलोअणा जाओ || ' इत्यत्र परिफुल्ललोचनत्वेन वस्तुना हर्षव्यञ्जनेऽपि कथं मदुपभोग्यरूपवस्तुव्यञ्जनम् । न च हर्षेण खजनकतया त्वदुपभोगाक्षेप इति वाच्यम् । हर्षस्य पुत्रलाभादिनापि संभवेनानैकान्तिकत्वेन मदुपभोग्यत्वाक्षेपकत्वासंभवादित्याशङ्कय अलसशिरोमणित्वादिश्रवणविशिष्टप्रफुल्लविलोचनत्वस्य कारणान्तरबाधसहकारेण मदुपभोग्यत्वव्यञ्जकत्वमिति स्वोक्तिव्याघातापत्तिः ॥
यदपि खरूपतो व्यवहारमात्रारोपस्य चारुत्वाभावाद्व्यवहारविशेषणत्वेन जाराद्युपस्थितिरवश्यमङ्गीकार्या । एवं च जारादेरभेदेन चन्द्रादावेवारोप उचित इत्यादि । तदपि न । जारादेरभेदेन चन्द्राद्यारोपवादिना त्वयापि जारादेर्व्यवहारविशेषणत्वेनान्वयस्यावश्यमभ्युपगम्यत्वात् । अन्यथा 'मुखचुम्बनकर्ता चन्द्रजार:' इति बोधे चन्द्रे जारत्वाक्षेपकत्वाभावात् । एवं चोभयत्र तदन्वयापेक्षया व्यवहार एव तद्बोधो युक्तो लाघवात् ॥
यत्तु जाराभिन्नत्वेन चन्द्रबोधं विना परनायिकावदनचुम्बनस्याहृद्यत्वादिति । तन्न । भेदप्रतीत्यभावमात्रेणापि तदुपपत्तावभेदप्रतीतेरनुपयुक्तत्वात्॥ यदपि मुखचुम्बनादिना स्त्रीलिङ्गादिसहकारेण व्यज्यमानं नायिकात्वादिकं निशादिवृत्तित्वेनैव व्यज्यत इति । तदपि न । व्यञ्जकं हि तत्र मुखचुम्बनादिकमेव स्त्रीत्वादिकं तु सहाकारिमात्रम् । एवं च चुम्बनादिना स्वविशेषणत्वेन तदाक्षेप्तुमर्हम् । किं च स्त्रीलिङ्गादिकं न निरपेक्षं नायिकात्वादिव्यञ्जकम् | 'निशामुखं चुम्बति चन्द्रिकैषा' इत्यादावपि तदापत्तेः । किं तु चुम्बनादिकर्तुः पुंस्त्वादिसहकारेणैव । एवं च चन्द्रगतं पुंस्त्वं निशाया नायिकात्वम्, निशागतं च स्त्रीत्वं चन्द्रस्य नायकत्वं व्यञ्जयतीति पर्यवसानात् कथमाक्षेपकसामानाधिकरण्येन नायिकात्वादिप्रतीतिः स्यात् ।
१. 'अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' इति च्छाया.