SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५८ काव्यमाला। इति तदर्थात् । भवति ह्यप्रकृतव्यवहाराभिन्नः प्रकृतव्यवहारस्तदाश्रयश्च चन्द्रादिरिति ॥ ___ अपि च यत्र वा वाच्यार्थाभिप्रायेणैव वाक्यप्रयोगे श्रोत्रादिना तसरूपार्थोऽवगम्यते, तत्र वक्तृतात्पर्याभावात् ततो न त्वदुक्तबोधसंभवः । यथा हर्षचरिते 'तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते । ___ अवतर कलहंसि वापिकामपि पुनरेष्यसि पङ्कजालयम् ॥' ___ इयं हि दुर्वाससः शापेन सरखत्यां भूमि प्रति प्रस्थातुकामायां तस्मिनेवावसरे हंसस्य हंसीं प्रति यथाश्रुतैवोक्तिः । सरखत्या तु सारूप्यात् खस्या ब्रह्मलोकदुस्त्यजत्वाभिज्ञानाभिप्रायेणापि योजितम् । त्वन्मतस्य च ब्रह्मलोकाभिन्नमानसत्यागेच्छाविरहवती हंसीरूपा सरखतीति बोधस्यात्रासंभवात् । किं च अत्रैव 'विशिष्टे विशिष्टस्य नाभेदान्वयः । अभेदप्रतियोगिनोऽर्थस्य शब्दानुपस्थितत्वात्' इत्युक्त्वा ऐन्द्यादीनामभेदेन नायिका दावन्वयबोधस्वीकारोऽनुचित एव । न हि वाक्यार्थस्यैव शब्दोपस्थितिरपेक्षिता न तु पदार्थस्य । अभेदप्रतियोगिन एव शब्दोपस्थितिस्तथा न तु तदनुयोगिन इति वा सप्रमाणकम् , येन वाक्यार्थस्य पदादनुपस्थिततदभेदबोधः । पदार्थे तु पदादनुपस्थितेऽपि पदार्थान्तराभेदो बुध्यत एवेति वावक्तुमवकाशः स्यात् । अत एव नायकादेः शब्दादनुपस्थितस्य न चन्द्रादावारोप इत्यत्र दूषणं यदुक्तम्-आरोपे न समानविभक्तिकपदाकाला इति । तदप्यपास्तम् । अत्रापि वाक्यार्थे विशिष्टस्यारोप आर्थ एवेत्यपि वक्तुं शक्यतया त्वदुक्तविलयापत्तेः ॥ किं च जारत्वाद्यारोपमन्तरेणापि चन्द्राद्रौ तब्यवहारारोपसंभवान्न तत्र जाराद्यारोपे किंचिद्गमकमस्ति ॥ यत्तु व्यञ्जकस्यानुपपत्तिनिरपेक्षस्यैव व्यञ्जकत्वमिति । तदपि न । प्रकृतानुकूलार्थव्यञ्जकत्वनियमभङ्गापत्तेः ॥
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy