________________
अलंकारकौस्तुभः ।
२९७ काप्रकृतव्यवहारप्रकारकारोपस्यैव युक्तत्वात् न तु भेदसंसर्गेण प्रकृतविशेष्ये तदारोपस्यापि, अभेदांशे व्यवहारांशे चारोपप्रसङ्गात् , मम त्वभेदांश एवारोप इति विशेषः । तस्मादप्रकृताभेदेन भासमानः प्रकृतव्यवहारः खविशेष्ये तद्विशेष्याभिन्नतया व्यवसिते भासते । तत्राप्रकृतार्थ उपस्कारकतया गुण इत्येव युक्तम् । अयं तु विशेषः । यथा-'त्वत्पादनखरक्तानाम्' इत्यादौ रूपकप्रकरणोदाहृते 'त्वत्पादनखरक्तानामलक्तकमार्जनं श्रीखण्डकरणकचन्द्रश्वेतीकरणभिन्नम्' इति विशिष्टमार्जने विशिष्टश्वेतीकरणारोपः । तद्वदत्रापि 'ऐन्द्रीमुखचुम्बनकर्ता चन्द्रो नायिकामुखचुम्बनकर्तृनायकाभिन्नः' इति न शाब्दबोधः । नायिकेत्यादिभागस्य शब्दानुपस्थितत्वात् । किं तु प्रकृतवाक्यार्थघटकाः पदार्थाः अप्रकृतपदार्थतादात्म्येन भासमाना वैशिष्ट्यमनुभवन्तो महावाक्यार्थरूपेण परिणमन्तः इति । तथा च 'ऐन्धभिन्ननायिकामुखचुम्बनकर्ता चन्द्रनायकः' इति बोध इति । तस्माद्व्यवहारस्यैव चन्द्रादावारोप इति मतं नियुक्तिकमेवेति । ___ अत्रेदं प्रतिभाति-त्वन्मते उभयत्राभेदारोपसत्त्वेन लाघवानवकाशः । तव हि नायिकाया रात्रौ नायकस्य च चन्द्रे अभेदेनारोपः । न च त्वन्मतेऽप्रकृतव्यवहारस्याभेदसंसर्गेण प्रकृतव्यवहारे आरोपः । अप्रकृतव्यवहारस्यैव चाश्रयत्वादिभेदसंबन्धेन चन्द्रादावित्युभयत्र संसर्गभेदः । मम तूभयत्राप्यभेद एव संसर्ग इति लाघवमिति वाच्यम् । मन्मतेऽप्रकृतव्यवहाराभेदाध्यवसितस्य प्रकृतव्यवहारस्यैव चन्द्रे बोधात्तस्य चारोपाभावात् । किं तु प्रकृतव्यवहारे अप्रकृतव्यवहारस्यैवारोपेण लाघवात् । तव त्वभेदमेव संसर्गीकृत्यारोपद्वयमिति गौरवम् । अप्रकृतव्यवहाराभिन्नप्रकृतव्यवहारस्य चन्द्रे बोधे चन्द्रविशेष्यकाप्रकृतव्यवहारारोपानपेक्षणात् । अप्रकृतव्यवहारस्याभेदेन प्रकृतव्यवहारे भेदेन च चन्द्रादावारोपे प्रयोजनाभावात् । न चैवं सति प्रकृतविशेष्ये अप्रकृतव्यवहारारोप इत्यादिग्रन्थविरोधापत्तिरिति वाच्यम् । स्वाभिन्नाश्रयत्वसंबन्धेन अप्रकृतव्यवहारस्य चन्द्रादावारोप
१. 'हाराभेदेन' ख.